________________
तस्वम्यायविभाकरे
[ षष्ठकिरणे प्रधानं, मोक्षमार्गोपदेशकत्वादिति लोकोत्तरः, स क इत्यत्राह तीर्थकरादिरिति, आदिना गणधरादीनां ग्रहणम् । तीर्थ प्रवचनं तत्करणशीलोऽचिन्त्यमाहात्म्यमहापुण्यापराभिधानतीर्थकरनामकर्मविपाकादिति तीर्थकरः, श्रीवर्धमानजिनप्रमुखपुरुषविशेष इत्यर्थः ।।
ननु यथार्थवक्तवचनरूप आप्तशब्द उपचरितागमतया प्रोक्तः तत्र कोऽसौ वचनात्मक5 इशब्द इत्यत आह- शब्दश्च सङ्केतसापेक्षः स्वाभाविकार्थबोधजनकशक्तिमांश्च ॥
शब्दश्चेति । सङ्केत इदं पदमस्य वाचकमिदश्चास्य पदस्य वाच्यमित्येवंरूपो वाच्यवाचकयोर्विनियोगः, तत्सापेक्ष इत्यर्थः, सङ्केतस्स्वार्थावबोधे शब्दस्यापेक्षाकारणं बोध्यम् ।
सङ्केतमात्रेण शब्दोऽथं प्रतिपादयतीति मतव्युदासायाह स्वाभाविकेति, स्वाभाविकी सहजाऽ10 र्थप्रतिपादनशक्तिर्योग्यताभिधाना तद्वानित्यर्थः । सङ्केतमात्रस्य पुरुषाधीनतया न तदिच्छया
वस्तुनियमो युक्तः, तदिच्छाया अव्याहतचारित्वेन कदाचिदर्थोऽपि वाचकश्शब्दोऽपि वाच्यः स्यात्, न च शब्दधर्मा ये गत्वौत्वादयस्तद्वानेव वाचको भवति परस्तु वाच्यो यथा द्रव्यत्वाविशेषेऽप्यग्नित्वादिविशिष्ट एव दाहादिजनको नान्य इति किं स्वाभा
विकयोग्यतयेति वाच्यम् , अतीन्द्रियशक्तिमन्तरेणाग्नित्वादीनामपि कार्यकारणभावानि15 यामकत्वात् । न च तत एव शब्दादर्थप्रतीतौ कि सङ्केतेनेति वाच्यम् , अङ्कुरोत्पत्तौ शक्ति
मतोऽपि बीजस्य क्षितिजलादीनामिव तस्य सहकारिकारणत्वात् । न चैवं देशभेदेन शब्दानामर्थभेदो न स्यादेकत्रैव शब्दानां स्वाभाविकशक्तियुक्तत्वादिति वाच्यम् , अत एव सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वाङ्गीकारेणादोषात् । न च घटशब्दश्रवणानिखिलार्थबोधः
स्यादिति वाच्यम् , क्षयोपशमसापेक्षत्वाद्बोधस्य, स च संकेताद्यपेक्ष इत्यदोषात्, 20 एतेन शब्दार्थयोस्सम्बन्धो न सम्भवति, स हि तादात्म्यो वा स्यात्तदुत्पत्तिरूपो वा
स्यात् तत्र नाद्यस्सम्भवति शब्दार्थयोभिन्नदेशत्वात् । अग्निगुडादिशब्दोच्चारणे वदने दाहम. धुराद्युपलब्धिप्रसङ्गाच्च । नापरोऽपि अङ्गुल्यग्रे करियूथशतमित्यादिशब्दानामर्थाभावेऽपि स्थानकरणप्रयत्नानन्तरमुत्पत्तिदर्शनात् । तथा च शब्दाः कथं बाह्यार्थे प्रतीतिं जनयितुं
समर्था अर्थसंस्पर्शित्वाभावात् । किन्तु विकल्पमात्रप्रभवाः तिरस्कृतबाह्यार्थाः स्वमहिम्ना 25 प्रत्ययान् जनयन्ति यथा करशाखादिवाक्यानि । किञ्च शब्दो न सामान्यवाचकः तस्यार्थक्रियाकारित्वाभावेन गगन कुसुमायमानत्वात् , नवा विशेषस्य वाचकः स्वलक्षणलक्षणस्य तस्य विकल्पज्ञानाविषयत्वेन संकेतगोचरत्वासम्भवात् , तथात्वेऽपि वा तस्य व्यवहारकालाननुयायित्वेन संकेतवैयर्थ्यात् । अत एव न सामान्यविशेषयोस्तादात्म्यानापन्नयोः । नापि