________________
यथार्थक्का 1 म्यायप्रकाशसमलङ्कृते
:४०७: दोष इवि वाच्यम् , एकस्य शब्दस्य युगपद्धद्धिद्वयजनकत्वस्यादर्शनात् । किश्चापोहलक्षण. सामान्यस्य पर्युदासरूपत्वे सिद्धसाध्यता, अगोनिवृत्तिस्वरूपस्य गोशब्देनोच्यमानस्य सामान्यस्यास्माभिर्भावस्वरूपतया गोशब्दवाच्यत्वस्वीकारात् अभावस्य भावात्मकतया व्य. वस्थापितत्वात् । भवद्भिरभ्युपगतोऽश्वादिनिवृत्तिस्वभावो भावोऽपि न तावदसाधारणो गवादिस्वलक्षणात्मा, तस्य सकलविकल्पागोचरत्वात् नापि शाबलेयादिव्यक्तिविशेषः, 5 असामान्यत्वप्रसङ्गात् तस्मात्सर्वेषु शाबलेयादिपिण्डेषु यत्प्रत्येकं विश्रान्तं यन्निबन्धना च गोबुद्धिस्तच्च गोत्वाख्यं सामान्यमन्यापोहरूपं गोशब्दवाच्यम् , सामान्यविशेषवद्वस्तुन एव गवादिशब्दवाच्यत्वात् । प्रसज्यप्रतिषेधस्तु तुच्छाभावानभ्युपगमेन व्युदस्त इति ॥
कोऽसौ यथार्थवक्ता भवेद्यद्वचनसम्भूतार्थविज्ञानमागमतया प्रमाणं स्यादित्यत्राह
प्रक्षीणदोषो यथावस्थितार्थपरिज्ञाता यथावस्थितार्थप्रख्यापको यथा- 10 र्थवक्ता, अयं द्विविधो लौकिकः पित्रादिर्लोकोत्तरस्तीर्थकरादिः ॥ . - प्रक्षीणदोष इति । यादृशार्थविज्ञानं यादृशशब्देन प्रतिपिपादयिषितं तादृशशब्दार्थोभयसम्बन्धिदोषशून्यत्वं तदर्थः, अत्र शब्ददोषोऽसाधुशब्दत्वादिकः अर्थदोषोऽयथावस्थितत्वादिक उभयदोषो वाच्यवाचकत्ववैधुर्यादिको विज्ञेयः । यद्यपि वस्तुतः प्रक्षीणदोषत्वं रागद्वेषशून्यत्वमेव तथापि लौकिकाप्तसंग्रहायांशिकाओं व्यावर्णितः । सर्वज्ञेऽप्ययमर्थस्स- 15 गच्छत एव, तस्यैवाखिलशब्दार्थोभयदोषशून्यत्वात् । यथावस्थितार्थपरिज्ञातेति, यथावस्थितत्वेनाभिधेयस्य प्रत्यक्षादिप्रमाणतः परिज्ञातेत्यर्थः, विना ज्ञानमुपदेशासंभवज्ञापनायेदं विशेषणम् । यथावस्थितार्थप्रख्यापक इति यथावस्थितार्थस्य यथाज्ञानं तथोपदेशक इत्यर्थः। यो हि भ्रमादर्थमन्यथाभूतं यथावस्थितत्वेन जानीते यथाज्ञानमभिधत्ते च तस्य यथार्थव. क्तृत्ववारणाय प्रक्षीणदोष इत्युक्तम् । केवलमर्थस्य यथावस्थितत्वेन परिज्ञातुर्मूकादेराग-20 मेऽनुपयुक्तत्वान्न स यथार्थवक्तेत्यतो यथावस्थितार्थप्रख्यापक इत्युक्तम् । तथा च यो यस्यावश्वकस्स तस्याप्त इति वृद्धप्रणीतमृष्यार्यम्लेच्छसाधारणमाप्तलक्षणमनेनानूदितमिति विभा. वनीयम् । तादृशस्य पुरुषस्य तत्तदर्थबोधकतत्तद्वचनस्याविसंवादकत्वेन तावन्मात्रमाप्तत्वात् । तं विभजते अयमिति यथार्थवक्तेत्यर्थः, लोके सामान्यजने भवो लौकिकः, तस्योदाहरणमाह पित्रादिरिति, आदिना जनन्यादिपरिग्रहः । द्वितीय भेदमाह-लोकोत्तर इति, लोकादुत्तरः 25
। १. नहि क्षीणदोषवचनं व्यतिरिच्यान्यतः प्रेक्षावतां परलोकादावदष्टेऽर्थे प्रवृत्तिर्युक्ता अतस्तस्यैव वचनं परमं प्रमाणमिति भावः।