________________
:४०६: तस्वन्यायविभाकरे
[षष्ठकिरके तादृशं च विप्रलम्भकवचनजन्यार्थविज्ञानमपीति यथार्थप्रवक्निति, परार्थानुमानस्यापि तादृशत्वेन तद्वारणाय वैलक्षण्यबोधकविपदघटितं विज्ञानपदमुपात्तम् ॥
ननु यदीदृशार्थविज्ञानमेवाऽऽगमस्तर्हि कथं सिद्धान्तविदामाप्तवचने आगमप्रत्यय इत्याशङ्कायामाह5 अर्थविज्ञानहेतुत्वादाप्तशब्दोऽप्यागम उपचारात्। यथा गोष्ठे गौरस्ति, धर्मसाध्यः परलोकोऽस्तीत्यादयः ॥
अथेति । उपचारादिति, कारणे कार्यस्योपचारादित्यर्थः, प्रतिपाद्यज्ञानस्य ह्याप्तवचनं कारणमिति भावः। तत्र शाब्दस्य लौकिकशास्त्रजभेदेन द्वैविध्याल्लौकिकस्य दृष्टान्तमाह यथेति,
एतद्वाक्यं तज्जन्यशाब्दबोधश्चागम इति भावः, उपलक्षणश्चैतत् चतुर्दशविद्यास्थानानाम् 10 शास्त्रजं निदर्शयति, धर्मेति, ईदृग्वाक्यानि, तजन्यबोधश्चागम इति भावः । उपलक्षणश्चैतदपि
द्वादशाङ्गचतुर्दशपूर्वाणाम् , अथवाऽऽगमत्रिविधः आत्मागमोऽनन्तरागमः परम्परागमश्चेति, गुरूपदेशमन्तरेणाऽऽत्मन एवागमः आत्मागमः, यथा तीर्थकराणाम् , तीर्थकरादागतत्वाद्गणधराणामर्थागमोऽनन्तरागमः, सूत्रस्य त्वात्मागमस्स्वयमेव प्रथितत्वात् , जम्बूस्वामि
प्रभृतीनान्तु सूत्रस्यागमोऽनन्तरागमोऽर्थस्य तु परम्पराममः । तत ऊवं प्रभवाणान्तु 15 परम्परागम एव ॥ नन्वर्थप्रतिपादकत्वं शब्दस्य न सम्भवति, तथाहि ये शब्दा अर्थे
सति दृष्टास्त एवातीतानागतादौ तदभावेऽपि दृश्यन्ते, यदभावे च यदृश्यते न तत्तत्प्रतिबद्धम् यथाऽश्वाभावेऽपि दृश्यमानो गौर्न तत्प्रतिबद्धः, अर्थाभावेऽपि च दृश्यन्ते शब्दाः तन्नैतेऽर्थप्रतिपादकाः, किन्त्वन्यापोहंमात्राभिधायका इति चेन्नार्थवतश्शब्दात्तद्रहितस्य
शब्दस्यान्यत्वात् , न चान्यस्य व्यभिचारेऽन्यस्यापि व्यभिचारो भवितुमर्हति, गोपालघ20 टिकादिधूमस्याग्निव्यभिचारोपलम्भेन पर्वतादिप्रदेशवर्तिनोऽपि वह्नयगमकत्वापत्तस्तथा च
कार्यहेतवे जलाञ्जलिदत्ता स्यात् किश्च प्रतीतिविरोधोऽपि स्याच्छब्दस्यान्यापोहाभिधायकत्वे, गवादिशब्देभ्यो विधिरूपतयाऽर्थप्रतीतेः, अन्यनिषेधमात्राभिधायकत्वे च तेन सास्नादिमतोऽर्थस्य प्रतीत्यनापत्त्या ततस्तद्बोधो न स्यात् , न चैकस्य गोशब्दस्य बुद्धिद्वयजनकत्वान्न
१. शब्दानां न परमार्थतः किञ्चिद्वाच्यं वस्तुस्वरूपमस्ति, शाब्दप्रत्ययानां सर्वेषां भ्रान्तत्वात् भिन्नेष्वेवाभेदाकाराध्यवसायेन प्रवृत्तः, यत्र तु पारम्पर्यण वस्तुप्रतिबन्धस्तत्रार्थसंवादो भ्रान्तत्वेऽपि तत्र यत्तदारोपितं विकल्पबुद्धयाऽर्थे भिन्नं रूपं तदनन्यव्यावृत्तपदार्थानुभवबलायातत्वात् स्वयञ्चान्यव्यावृत्ततया प्रतिभासनात् भाने स्वान्यव्यावृत्त्याऽर्थेन सहक्येनाध्यवसितत्वादन्यापोढपदार्थाधिगतिफलत्वाच्चापोह उच्यते, अतोऽपोहश्शब्दार्थ इति प्रसिद्धम् ॥