SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ 5 आगमः ] न्यायप्रकाशसमलङ्कृते :४०५: प्रदर्शितव्यतिरेकविपरीतव्यतिरेकाणां वैधर्म्यदृष्टान्तत्वं नाभ्युपयन्ति, अव्यतिरेकिताया हेतुदोषत्वात् इतरयोर्वक्तृदोषत्वादिति, अत्र समाधिस्तु पूर्ववत् ॥ - अथोपनयाभासमाह पर्वतो वह्निमान् धूमात् यो धूमवान् स वह्निमान् यथा महानसं, वहिमांश्च पर्वतो धूमवन्महानसं वेत्युपसंहरणे उपनयाभासः।। पर्वत इति । साधर्म्यनिदर्शनमाह य इति, उपनयमाह-वहिमांश्चेति । साध्यमिणि हेतोरुपसंहरणं हि उपनयो भवति परं भ्रान्त्या साध्यस्य वह्नयादेस्साध्यधर्मिणि पर्वतादा. वुपसंहरणे उपनयाभास एव स्यादिति भावः, तथैव हेतोषूमादेरन्यत्र महानसादावुपसंहारेऽ पि स एवेति दर्शयति धूमवन्महानसमिति ॥ अथ निगमनाभासनिदर्शनमाह 10 तत्रैव तस्मादमवान् पर्वतो वह्निमन्महानसमिति निगमने निगमनाभास इति दिक् । इत्याभासनिरूपणं समाप्तश्चानुमानम् ॥ · तत्रैवेति । पर्वतो वह्निमान धूमादित्यत्रैवेत्यर्थः निगमनमाह, तस्मादिति, साध्यधर्मस्य साध्यधर्मिणि निगमनं कार्य तथाऽकृत्वा भ्रान्त्या साधनस्य धूमस्य साध्यधर्मिणि पर्वतादौ साध्यस्य वर्दृष्टान्तधर्मिणि महानसादौ च निगमने निगमनाभासो भवतीत्यर्थः । एवं 15 निरूपितानां प्रमाणानामाभासा निरूपिता इत्याहेतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालंकारश्रीमद्विजयकमलसूरीश्वरच रणनलिनविन्यस्तभक्तिभरेण विजयलब्धिसूरिणा विरचितस्य तत्त्वन्यायविभाकर. स्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायामाभासनिरूपणो नाम पञ्चमः किरणः ॥ - षष्ठः किरणः ___ अथ क्रमायातमवसरसङ्गत्याऽऽगमं निरूपयति........... यथार्थप्रवक्तृवचनसम्भूतमर्थविज्ञानमागमः ॥ यथार्थेति । यथार्थप्रवक्ता वक्ष्यमाणस्वरूपस्तेन प्रणीतं वर्चनं तस्मात्सम्भूतमाविर्भूतं यदर्थविज्ञानं स आर्गम इत्यर्थः । अर्थविज्ञानं प्रत्यक्षादिरूपमपि अतो वचनसम्भूतमिति 20 .... १. प्रतिविशिष्टवर्णानुपूर्वीविन्यस्तवर्णपदवाक्यसंघातात्मकमित्यर्थः ।। २. यद्यपि वचनमात्रस्य नागमत्वं किन्तु आचाराङ्गादीनामष्टपूर्वाणाञ्च श्रुतत्वं नवमपूर्वादीनां श्रुतत्वेऽपि अतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमत्वेनैव व्यपदेशस्तथापि लौकिकलोकोत्तरभेदाभिप्रायेण व्यापकं लक्षणमादर्शितम् ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy