________________
:४०४: तत्त्वन्यायविभाकरे
[ पञ्चमकिरणे मिति यो नासर्वज्ञस्स क्षणिकैकान्तवादीत्यर्थः । सन्दिग्धतयेति सामान्यप्रमातृणामिति शेषः, तेन प्रमाणबाधितक्षणिकैकान्तवादिनोऽसर्वज्ञत्वनिश्चयेन साध्यव्यावृत्तेरसिद्ध्याऽसिद्धसाध्यव्यतिरेकित्वेऽप्यस्य न क्षतिः । असर्वज्ञत्वव्यतिरेकसंशयस्तु तेन सह क्षणिकैकान्तवादि
त्वस्य व्याप्त्यसिद्धेः । असर्वज्ञेनापि परप्रतारणाभिप्रायेण तथावादस्य कत्तुं शक्यत्वादिति । 5 पश्चममाह चैत्र इति, वैधर्म्यदृष्टान्तमाह यन्नैवमिति, यो नामाह्यवचनस्स न रागीत्यर्थः ।
संशयादिति, अपक्षपातिनामिति शेषः । तेन तद्दर्शनानुरागिणां तथागते ग्राह्यवचनत्वस्य प्रसिद्धत्वेऽपि न क्षतिः। रागित्वव्यतिरेकसंशयश्च तन्निर्णायकप्रमाणराहित्यात् । अथ षष्ठमाह बुधोऽयमिति, वैधर्म्यदृष्टान्तमाह य इति, उभयस्य संशयादिति, बुद्धे सर्वज्ञ
त्वस्यारागित्वस्य च निश्चायकप्रमाणाभावेन सर्वज्ञोऽसर्वज्ञो वा रागी वाऽरागी वेति 10 संशयादिति भावः ॥
अथ सप्तममाह
चैत्रोऽयमरागी, वक्तृत्वाद्यन्नैवं तन्नैवं यथा पाषाणशकलमिति दृष्टान्ते साध्यसाधनोभयव्यतिरेकस्य सत्त्वेऽपि व्याप्त्या व्यतिरेका
सिद्धेरव्यतिरेकः ॥ 15 चैत्रोऽयमिति । वैधर्म्यदृष्टान्तमाह यन्नैवमिति, यो रागी न स वक्तेत्यर्थः, व्याप्त्या
व्यतिरेकासिद्धेरिति, साध्यसाधनव्यतिरेकयोः पाषाणशकले साहचर्यदर्शनेऽपि तयोर्व्याप्त्यसिद्ध्याऽव्यतिरेक इत्यर्थः। अनेन सहाष्टविधानां वैधर्म्यदृष्टान्ताभासानामभिन्नतयाऽष्टविधत्वं वैधर्म्यदृष्टान्ताभासानामिति श्रीहेमचन्द्राचार्याः ॥
अष्टमं नवमश्चाह20 अनित्यश्श्ब्दः कृतकत्वाद्गगनवदिति दृष्टान्तो व्यतिरेकस्याप्रदर्श
नादप्रदर्शितव्यतिरेकः । तत्रैव यदकृतकं तन्नित्यमित्युक्ते विपरीतव्यतिरेकः ॥
-- अनित्य इति । व्यतिरेकस्येति यो नित्यस्स न कृतक इति व्यतिरेकस्येत्यर्थः सत्त्वेऽ पीति शेषः । विपरीतव्यतिरेकमाख्याति तत्रैवेति पूर्वोपदर्शितेऽनित्यश्शब्दः कृतकत्वादित्य25 नुमान इत्यर्थः, वैधर्म्यस्थले हि प्रथमं साध्यव्यतिरेकं प्रदश्यैव साधनव्यतिरेकः प्रदर्शनीयः,
अत्र तद्वैपरीत्येन प्रदर्शनाद्विपरीतव्यतिरेक इति भावः । अत्रापि केचित अन्वयव्यतिरेका