________________
दृष्टान्ताभासाः ]
न्यायप्रकाश समलङ्कृते
: ४०३ :
वैधर्म्यदृष्टान्ताभासोऽपीति । न केवलं साधर्म्यदृष्टान्ताभास एव नवविधः किन्तु वैधर्म्यदृष्टान्ताभासोऽपि नवविध इत्यर्थः, साध्याभावसाधनाभावव्याप्तिदर्शनस्थानं वैधर्म्य - दृष्टान्तस्तस्याभासोऽसिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यति रे कोऽसिद्धो भयव्यतिरेकस्सन्दिग्धसाध्यव्यतिरेकस्सन्दिग्धसाधनव्यतिरेकस्सन्दिग्धोभयव्यतिरेकोऽव्यतिरेको ऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्चेति नवविध इति भावः ॥
तेषु प्रथमप्रकारमुपदर्शयति —
अनुमानं भ्रमः प्रमाणत्वाद्यो भ्रमो न भवति स न भवति प्रमाणं यथा स्वमज्ञानमिति दृष्टान्तः, स्वप्नज्ञाने भ्रमत्वनिवृत्त्यसिद्ध्या असिद्धसाध्यव्यतिरेकः । निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात् यन्न प्रत्यक्षं न तत्प्रमाणं यथानुमानमित्यत्रानुमानेऽप्रमाणत्वासिद्ध्याऽसिद्धसाधनव्यतिरेकः ॥ 10
5
अनुमानमिति । अत्र वैधर्म्य दृष्टान्तमाह य इति सङ्गमयति स्वप्नज्ञान इति । असिद्धेति, असिद्धः अप्रतीतस्साध्यस्य व्यतिरेको यस्मादसाविति विग्रहः । द्वितीयं दृष्टान्ताभा. समाह निर्विकल्पकमिति, वैधदृष्टान्तमाह यन्नेति, घटयति अनुमान इति ॥
अथ तृतीयमाह -
घटो नित्यानित्यः सत्त्वात् यो न नित्यानित्यः न स सन् यथा पट 15 इति दृष्टान्तोsसिद्धसाध्यसाधनोभयव्यतिरेकः ॥
घट इति । वैधर्म्य दृष्टान्तमाह यो नेति दृष्टान्त इति पटात् नित्यानित्यनिवृत्तेरसव1 निवृत्तेश्चासिद्धत्वादिति भावः ॥
चतुर्थपञ्चमषष्ठानाह—
कपिलो सर्वज्ञोऽक्षणिकैकान्तवादित्वात् यन्नैवं तन्नैवं यथा बुद्ध इति 20 दृष्टान्तस्सर्वज्ञत्वस्य बुद्धे संदिग्धतया सन्दिग्धसाध्यव्यतिरेकः । चैत्रोऽग्राह्यवचनो रागित्वात् यन्नैवं तन्नैवं यथा तथागत इति दृष्टान्तस्तथागतेऽरागित्वस्य संशयात्सन्दिग्धसाधनव्यतिरेकः । बुधोऽयं न सर्वज्ञो रागित्वादित्यत्र यस्सर्वज्ञस्स न रागी यथा बुद्ध इति दृष्टान्ते उभयस्य संशयात् संदिग्धसाध्यसाधनोभयव्यतिरेकः ॥
कपिल इति । अक्षणिकेति नित्यैकान्तवादित्वादिति भावः वैधर्म्यदृष्टान्तमाह यन्नैव
25