________________
तस्वम्यायविभाकरे
[ पञ्चमकिरणे मिति अत्रैवं प्रदर्शितेऽपि व्यभिचाराभावेन न काप्यनुपपत्तिरितिवाच्यम् , समव्याप्तिकस्थले तथात्वेऽपि शब्दोऽनित्यः प्रयत्नानन्तरीयकत्वादित्यादिविषमव्याप्तहेतुस्थले यदनित्यं तत्प्रयत्नानन्तरीयकमित्युक्तौ विद्युदादौ व्यभिचारेणानुपपत्तिसत्त्वात् , साधर्म्यप्रयोगे साधनस्यैव पूर्वप्रदर्शनीयत्वादिति । अत्र केचित् अनन्वयाप्रदर्शितान्वयविपरीतान्वयरूपदृष्टान्तत्रयाभिधानं न सुपर्यालोचितं, तथाहि न तावदनन्वयो दृष्टान्ताभासो भवितुमर्हति, यदि हि दृष्टान्तबलेन व्याप्तिस्साध्यसाधनयोः प्रतिपाद्येत ततस्स्यादनन्वयो दृष्टान्ताभासः स्वकार्याकरणात् , यदा तु पूर्वप्रवृत्तसम्बन्धग्राहिप्रमाणगोचरस्मरणसम्पादनार्थं दृष्टान्तोदाहृतिरिति स्थितं तदाऽनन्वयलक्षणो न दृष्टान्तदोषः, किन्तर्हि, हेतोरेव, प्रतिबन्धस्याद्यापि प्रमाणेनाप्रतिष्ठितत्वात् प्रतिबन्धाभावे
चान्वयासिद्धेः, न च हेतुदोषोऽपि दृष्टान्ते वाच्यः, अतिप्रसङ्गात् । तथाऽप्रदर्शितान्वय10 विपरीतान्वयावपि न दृष्टान्ताभासतां स्वीकुरुतः, अन्वयाप्रदर्शनस्य विपरीतान्वयप्रदर्शनस्य
च वक्तृदोषत्वात् , तदोषद्वारेणापि दृष्टान्ताभासप्रतिपादने तदियत्ता विशीर्येत, वक्तृदोषाणामानन्त्यात् । नन्वनयोर्वक्तृदोषत्वेऽपि परार्थानुमाने तत्कौशलमपेक्षत एव, अन्यथोपन्यासे बुभुत्सितार्थासाधकत्वादिति चेन, करणापाटवादीनामपि दृष्टान्ताभासत्वापत्तेः,
करणपाटवव्यतिरेकेण हि न परप्रत्यायनं समस्ति, विस्पष्टवर्णाग्रहणे व्यक्ततया तदर्थावगमा15 भावादित्याहुः, तन्न परस्मै व्याप्तिप्रतिपादनस्थानं हि दृष्टान्तः, प्रतिपाद्यानुरोधेन परार्था
नुमाने उदाहरणस्यानुज्ञातत्वेन तस्य च दृष्टान्ताभिधानरूपत्वात् , सोऽपि महानसादिहष्टान्तो यदि साध्यसाधनयोगी न भवेत्तर्हि कथं ततो व्याप्तेः स्मरणं भवेत् दृष्टान्ततदाभासयोश्च विवेकः स्यात् ततोऽवश्यमेव स साध्यसाधनयोगी स्यात् प्रदर्शनीयञ्च परस्मै
तत्र साध्यं साधनञ्च तत एव तयोस्सत्त्वासत्त्वाभ्यां दृष्टान्ततदाभासौ भवेताम् , अत एव 20 च तत्साधयंतो वैधयंतश्च द्वैविध्य सङ्गतिमञ्चति, उक्तञ्च हेमचन्द्राचार्यैः दृष्टान्तस्य लक्षणं तद्भेदश्च " स व्याप्तिदर्शनभूमिः, स साधर्म्यवैधाभ्यां द्वेधा” इति, उक्तश्चान्यत्र तैरेव " परार्थानुमानप्रस्तावादुदाहरणदोषा एवैते दृष्टान्तप्रभवत्वात्तु दृष्टान्तदोषा उच्यन्त " इति । परस्य व्याप्तिस्मरणानुत्पादे वक्त्रुपन्यस्तदुष्टोदाहरणस्यैव निबन्धनत्वमन्यथोदाहरणादिदोषोद्भावनमेव निरर्थकं भवेत् साध्यधर्मादिविकलदृष्टान्तोद्भावनस्य वक्तृदोषनि25 बन्धनत्वेन तस्यापि दृष्टान्ताभासत्वं न स्यादिति यत्किञ्चिदेतत् ॥
अथ वैधHदृष्टान्ताभासं विभजते
वैधर्म्यदृष्टान्ताभासोऽपि नवविधः, असिद्धसाध्यसाधनोभयव्यतिरेकसन्दिग्धसाध्यसाधनोभयव्यतिरेकाव्यतिरेकाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकभेदात् ॥