________________
दृष्टान्ताभासाः ] म्यायप्रकाशसमलङ्कृत
. : ४०११ अयं चैत्र इति । सन्दिग्धतयेति, देवदत्ते रागित्वस्य. सत्त्वमसत्त्वश्च सन्दिग्धं, पुरुपान्तरमनोवृत्तीनां दुरधिगमात् रागित्वाव्यभिचारिलिङ्गानुपलब्धेश्चेति भावः, सन्दिग्धसाधनं दृष्टान्तमाहायं वक्तेति, मैत्रे रागित्वस्योक्तहेतोस्सन्देहादित्यर्थः । सन्दिग्धोभयं दृष्टान्तमाचष्टे अयमिति, मुनिवदिति मुनिविशेषवदित्यर्थः, मुनिविशेषे हि असर्वज्ञत्वरागित्वयोस्संशयस्तदव्यभिचारिहेत्वदर्शनात् , सर्वज्ञत्वारागित्वनिर्णायकहेत्वदर्शनाच्चेति भावः ॥ 5
अनन्वयं दृष्टान्तमभिधत्ते
चैत्रोऽयं रागी वक्तृत्वान्मैत्रवदिति दृष्टान्ते साध्यहेत्वोस्सत्त्वेऽपि यो यो वक्ता स स रागादिमानिति व्याप्त्यसिद्ध्याऽनन्वयः॥ - चैत्रोऽयमिति । व्याप्त्यसिद्ध्येति, यद्यप्यभिमते मैत्रादौ वक्तृत्वं रागित्वश्चास्ति पाषाणादौ त्वस्ति तयोनिवृत्तिस्तथापि यो यो वक्ता स स रागादिमानिति प्रतिबन्धस्तयोर्न सिद्ध्यति, 10 अतोऽभिमतमैत्रादिरनन्वयदृष्टान्त इति भावः । अष्टभ्योऽयं न भिन्नो व्याप्त्यसिद्धेस्सर्वत्र सत्त्वादित्यष्टावेव साधर्म्यदृष्टान्ताभासा इति श्रीहेमचन्द्राचार्याः ॥
अप्रदर्शितान्वयं दृष्टान्तं विपरीतान्वयदृष्टान्तञ्चाह
अनित्यशब्दः कार्यत्वाद्धटवदित्यत्रान्वयसहचारसत्त्वेऽप्यप्रदर्शनादप्रदर्शितान्वयः । तत्रैव यदनित्यं तत्कृतकं यथा घट इत्युक्तौ 15 विपरीतान्वयः॥
अनित्य इति । अप्रदर्शनादिति, वचनेनाप्रकाशितत्वादित्यर्थः, अत्रेदम्बोध्यमप्रदर्शितान्वयस्थले वस्तुनिष्ठो न कश्चिदोषः, परार्थानुमाने च वचनगुणदोषानुसारेण वक्तुर्गुणदोषौ परीक्षणीयाविति भवति वाचनिकमस्य दोषत्वं, एवं अप्रदर्शितव्यतिरेकेऽपि बोध्यम् । अथ विपरीतान्वयं नवमं दर्शयति-तत्रैवेति, पूर्वोपदर्शितेऽनित्यः शब्दः कार्यत्वाद्धटवदित्यत्रैवे- 20 त्यर्थः, यदनित्यमिति, यत्कृतकं तदनित्यमित्यनुक्त्वेत्यादिः । अन्वये हि प्रथमं हेतुं प्रदर्य साध्यं प्रदर्शनीयमत्र तु विपर्यासेन प्रदर्शनाद्विपरीतान्वय इति भावः । न च यदनित्यं तत्कृतक
१. एवं ह्यभिधानेऽनित्यत्वं व्याप्यं कार्यत्वं व्यापकमिति विपरीता व्याप्यव्यापकभावप्रतिपत्तिः स्यात् , तया च समव्याप्तिके साधनस्य व्यापकत्वाभिधाने साध्यस्य प्रतिपत्तिर्न स्यादिति दूषणम् , विषमव्याप्तिके तु तया व्याप्त्यग्रहश्च व्यभिचारज्ञानात् । विषमव्याप्तिक एव विपरीतान्वयो दोष इति केचित् ॥ २. यद्यत् कार्य तत्तदनित्यं यथा घटादिरिति वचनं विनाऽन्वयस्याप्रतीतेरिति भावः ॥