________________
: ४०० :
तस्वन्यायविभाकरे
[पथम किरणे
दृष्टान्तवद्भासमानो दृष्टान्ताभासः, स द्विविधः । साधर्म्यदृष्टान्ताभासो वैधर्म्यदृष्टान्ताभासश्चेति । साधर्म्यदृष्टान्ताभासो नवविधः, साध्यसाधनोभयविकलसन्दिग्धसाध्यसाधनो भयानन्वयाप्रदर्शितान्वयविपरीतान्वयभेदात् ॥
5
I
दृष्टान्तेति । यो दृष्टान्तप्रतिरूपक एव नतु दृष्टान्तत्वलक्षणसहितस्स दृष्टान्ताभास इत्यर्थः । दृष्टान्तस्य पूर्वं साधर्म्यवैधर्म्यतया द्वैविध्यस्य प्रदर्शनेन तदाभासोऽपि सामान्यतो द्विविध इत्याह स इति परार्थानुमान एव दृष्टान्तस्योद्भावनेनोदाहरणदोषा इमे बोध्या:, तेषां च दृष्टान्तप्रभवत्वाद् दृष्टान्तदोषतयोत्कीर्त्तनम् । तत्र साधर्म्य दृष्टान्ताभासो विशेषेण नवविध इत्याह साधर्म्येति, तथा च साध्यविकलस्साधनविकलस्तदुभय10 विकलस्संदिग्धसाध्यस्सन्दिग्ध साधनस्सन्दिग्धतदुभयोऽनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयविविधस्स इत्यर्थः ॥
तत्रैकस्मिन्नेवानुमाने दृष्टान्तभेदे क्रियमाणे प्रथमभेदत्रयस्य निदर्शनं भवतीति ग्रन्थलाघवकामस्तथैवाह——
नित्यशब्दोऽमूर्त्तत्वादित्यत्र दुःखस्य दृष्टान्तत्वे तस्यानित्यत्वेन 15 साध्यधर्मविकलता । परमाणोर्द्दष्टान्तत्वे मूर्त्तत्वेन तस्य साधनविकलता, घटस्य दृष्टान्तत्वे तूभयविकलता ॥
नित्य इति, इत्यत्रेति, ईदृशानुमान इत्यर्थः दृष्टान्तत्व इति दृष्टान्ते क्रियमाण इत्यर्थः, तस्येति दुःखस्येत्यर्थः, अनित्यत्वेनेति पुरुषप्रयत्नजन्यत्वेनानित्यत्वादिति भावः साध्येति नित्यत्वधर्मशून्यत्वादिति भावः, साधनविकलदृष्टान्तमाह, परमाणोरिति, नित्यश20 ब्दोऽमूर्त्तत्वादित्यनुषज्यत एवमग्रेऽपि तस्येति परमाणोरित्यर्थः, साधनेति, अमूर्त्तत्वधर्मशून्यत्वादिति भावः, उभयविकलं दृष्टान्तमाह घटस्येति तस्यानित्यत्वेन मूर्त्तत्वेन च साध्यं साधनात्र नास्तीति भावः ॥
एवं सन्दिग्धसाध्यसाधनोभयान्याह
अयं चैत्रो रागी वक्तृत्वाद्देवदत्तवदित्यत्र देवदत्ते रागित्वस्य संदि25 ग्धतया संदिग्धसाध्यधर्मा । अयं वक्ता रागित्वान्मैत्रवदिति सन्दिग्धधर्मा । अयं न सर्वज्ञो रागित्वान्मुनिवदिति दृष्टान्तेऽसर्वज्ञत्वरागित्वयोः सन्दिग्धत्वात्सन्दिग्धो भयधर्मा ॥