________________
प्रत्यक्षाभासः ]
न्यायप्रकाशसमलङ्कृते इति भावः । द्वितीयं दृष्टान्तमाहैकस्मिंश्च घट इति, एकस्मिन् घटाद्यात्मके वस्तुनीत्यर्थः, विषयप्रदर्शकमात्रमिदं पदं न तु प्रत्यभिज्ञानाकारे तस्योल्लेखः, प्रत्यभिज्ञानाकारस्तु वस्त्विदं तेन सदृशमित्येव नातो नपुंसकत्वविरोधः । ऊर्ध्वतासामान्यस्वभावे एकस्मिन् घटे तिर्यक्सामान्यावलम्बिज्ञानं तेन सदृशमिदमिति ज्ञानं प्रत्यभिज्ञाभास इति भावः । स्मरणाभासमाह-अननुभूत इति, प्रमाणमात्रेण कदाचिदप्यनुपलब्ध इत्यर्थः, दृष्टान्तयति यथेति, 5 सुगमं शिष्टम् ।।
. स्मृतिहेतुत्वेन प्रत्यक्षस्योपस्थानात्सांव्यवहारिकादिप्रत्यक्षाभासानाह- मेघादौ गन्धर्वनगरादिज्ञानं दुःखादी सुखादिप्रत्यक्षश्चेन्द्रियानिन्द्रियनिमित्तकसांव्यवहारिकप्रत्यक्षाभासः। शिवराजर्षेरसंख्यातद्वीपसमु. द्रेषु सप्तद्वीपसमुद्रज्ञानमवध्याभासः। मनःपर्यवकेवलयोस्तु नाभासत्वं 10 संयमविशुद्धिजन्यत्वात्कृत्स्नावरणक्षयसमुद्भूतत्वाच ॥
मेघादाविति । इदश्चेन्द्रियनिमित्तकसांव्यवहारिकप्रत्यक्षाभासस्य निदर्शनम् । अनिन्द्रियनिबन्धनसांव्यवहारिकप्रत्यक्षाभासस्य दृष्टान्तमाह दुःखादाविति, अवग्रहादीनामाभासा एवमेव स्वयमूह्याः। पारमार्थिकप्रत्यक्षस्यावध्याभासात्मकस्य विभङ्गज्ञानापरपर्यायस्य निदर्शनमाह शिवराजर्षेरिति, अयं कश्चन राजर्षिस्वसमयप्रसिद्धस्तस्य किल विभङ्गात्मकमवध्याभास- 15 मसंख्यातेषु द्वीपसमुद्रेषु सप्तद्वीपसमुद्रसंवेदनं समुदभूदिति सैद्धान्तिका आहुः, सोऽयमवध्याभास इत्यर्थः । पारमार्थिकप्रत्यक्षविशेषयोर्मन:पर्यवकेवलयो भासत्वसम्भव इत्याह मन इति, तत्र हेतुमाह संयमेति, कृत्स्नेति हेतुरयं केवलस्यानाभासत्वे, घातिकर्माख्यनिखिलावरणविनाशादित्यर्थः ॥ .. नन्वेवं मत्यादीनामाभासत्वं प्रदर्शितं परं तदन्तर्गतश्रुतविशेषस्याभासत्वं कथमित्या- 20 शङ्कायामाह
आगमाभासस्त्वग्रे वक्ष्यते ॥ आगमाभास इति । आगमस्वरूपस्यैवाविज्ञातत्वेन तदाभासोऽधुना वर्णयितुमशक्य इति तन्निरूपणोत्तरमेव निरूपणीय इत्याशयेनाहाने वक्ष्यत इति, आगमनिरूपणानन्तरमभिधास्यत इत्यर्थः ॥ ___ एवमनुमाननियतोपकरणाभासानुक्त्वाऽधुना मन्दमत्यपेक्षयाऽनुज्ञातदृष्टान्तादीनां याथाझ्याथार्थ्यप्रकाशनाय तदाभासानाह
25