________________
तत्त्वन्यायविभाकरे
[ पञ्चमकिरणे . एवं पक्षाभासे हेत्वाभासे च निरूपिते हेतुपक्षोभयाङ्गकानुमाने स्मृते तदाभासमप्याचष्टे
पक्षाभासादिसमुद्भूतं ज्ञानमनुमानाभासः॥ पक्षाभासादीति । आदिना हेत्वाभासदृष्टान्ताभासादीनां ग्रहणम् , प्रोक्तेन पक्षाभासेन हेत्वाभासेन वा वक्ष्यमाणदृष्टान्ताभासादिना वा सम्भूतं ज्ञानमनुमानवत्पक्षसाध्यरूपेणाभा5 समानत्वादनुमानाभास इत्यर्थः। एवं स्वप्रतिपत्तिफलकं पक्षाभासादिसमुद्भूतं ज्ञानं स्वार्थानुमानाभासः परप्रतिपत्तिफलकं पक्षाभासादिसमुद्भूतं ज्ञानं परार्थानुमानाभास इत्यपि बोध्यम् ।।
अथानुमानाभासात्मकज्ञानजनकहेत्वाभासनिष्ठगमकताप्रयोजकतर्कादीनामाभासरूपाणां स्वरूपं वक्तुं प्रथमं तर्काभासमाह
असत्यां व्याप्तौ तर्कप्रत्ययस्तर्काभासः । यथा यो यो मित्रातनयः 10 स म श्याम इति ॥
असत्यामिति । अविद्यमानायामित्यर्थः, तथा च व्याप्तिर्नास्ति ययोः तत्र केवलमाकारमात्रेण तर्करूपतया यो भासते स तर्काभास इत्यर्थः । दृष्टान्तमाह यथेति स श्यामो मित्रातनयत्वादित्यत्र हि श्यामत्वमित्रातनयत्वयोर्वस्तुतो व्याप्तिर्नास्ति श्यामभिन्नस्यापि मित्रा
तनयस्य संभवात् परन्तु यावान् कश्चिन्मित्रातनयस्स श्याम इति सर्वाक्षेपेण प्रत्ययात्तस्य 15 तर्काभासत्वं शाकाद्याहारपरिणामपूर्वकमित्रातनयत्वस्यैव व्याप्यत्वादिति भावः ॥
तर्कस्य प्रत्यभिज्ञास्मरणजन्यत्वेन तयोराभासौ वक्ति
तुल्ये वस्तुन्यैक्यस्य, एकस्मिश्च तुल्यतायाः प्रत्यभिज्ञानं प्रत्यभिज्ञाभासः । यथा तदेवौषधमिति, एकस्मिश्च घटे तेन सदृशमिति ज्ञानम् ।
अननुभूते तदिति बुद्धिस्मरणाभासः । यथाऽननुभूतशुक्लरूपस्य 20 तच्छुक्लं रूपमिति बुद्धिः ॥
तुल्य इति । तिर्यक्सामान्यविषयकत्वेनोर्द्धतासामान्यविषयकत्वेन च प्रत्यभिज्ञाया द्वैविध्यात्तुल्ये वस्तुनि तिर्यक्सामान्यालिङ्गिते भावे ऐक्यस्य ऊर्ध्वतासामान्यमवलम्ब्य प्रत्यभिज्ञानं तथा एकस्मिश्च वस्तुनि ऊर्ध्वतासामान्यस्वभावे तिर्यक्सामान्यमवलम्ब्य
तुल्यतायाः प्रत्यभिज्ञानं प्रत्यभिज्ञाभास इति भावः। ऐक्यस्येति पदस्य प्रत्यभिज्ञानमित्यप्रेतने 25 नान्वयः । दृष्टान्तमावेदयति यथेति-औषधव्यक्त्योर्मध्यादेकत्रौषधे तिर्यक्सामान्यालीढेऽ
परेण तुल्यमिदमिति वक्तव्ये तदेवौषधमिदमित्यूर्ध्वतासामान्यावलम्बिज्ञानं प्रत्यभिज्ञाभास