________________
पक्षाभासः ] न्यायप्रकाशसमलङ्कते
: ३९५ : तथा परोक्तानामष्टविधानां हेतूनामत्रैवान्तर्भावः, ते च हेतवो यथा पक्षत्रयव्यापकः-नित्यइशब्दः प्रमेयत्वादिति, अयं पक्षसपक्षविपक्षव्यापकः, पक्षसपक्षव्यापको विपक्षैकदेशवृत्तिर्यथा गौरयं विषाणित्वादिति, एतद्गवि गवान्तरे च सर्वत्र क्वचिन्महिषादौ च हेतोस्तत्त्वात् । पक्षविपक्षव्यापकस्सपक्षैकदेशवृत्तिर्यथा नायं गौर्विषाणित्वात् पक्षे मेषे विपक्षे गोमात्रे कचित्सपने महिषादौ सत्त्वात्, पक्षव्यापकस्सपक्षविपक्षैकदेशवृत्तिर्यथा अनित्य- 5
शब्दः प्रत्यक्षत्वात् , शब्दमात्रे कचिद्रूपादौ कचिदात्मादौ सत्त्वात् , पक्षैकदेशवृत्तिस्सपक्षविपक्षव्यापको यथा न द्रव्याण्याकाशकालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वात् आकाशात्मभिन्नेषु गुणादौ सर्वत्र पृथिव्यप्तेजोवायुषु वर्तमानत्वात् । पक्षविपक्षैकदेशवृत्तिस्सपक्षव्यापी यथा न द्रव्याणि दिक्कालमनांस्यमूर्त्तत्वात् मनोभिन्ने पक्षे कचिदात्मनि गुणादौ सर्वत्र च सत्त्वात् , पक्षसपक्षैकदेशवृत्तिर्विपक्षव्यापी यथा द्रव्याणि दिक्कालमनां- 10 स्यमूर्त्तत्वात् मनोभिन्ने पक्षे आकाशात्मनोर्गुणादौ सर्वत्र च सत्त्वात् । पक्षत्रयैकदेशवृत्तिर्यथा अनित्या पृथिवी प्रत्यक्षत्वात् जन्यपृथिव्यां कचिजलादौ आत्मादौ सत्त्वादिति । हेत्वाभासस्य समाप्तिं द्योतयतीतीति ॥
सम्प्रत्यवसिते हेत्वाभासे तदितराङ्गानां कारणानाञ्चाभासान् प्रसङ्गाद्वक्तुमुपक्रमते
पक्षाभासस्त्रिविधः, प्रतीतसाध्यधर्मविशेषणको निराकृतसाध्य- 15 धर्मविशेषणकोऽन भीप्सितसाध्यधर्मविशेषणकश्चेति ।। - पक्षाभास इति । पक्षवदुद्देश्यविधेयभावेनाभासते-प्रतीयते न तु तत्कार्य करोतीति पक्षाभासः-पक्षत्वलक्षणविनिर्मुक्त इत्यर्थः, त्रैविध्यं दर्शयति प्रतीतेति, प्रतीतः प्रमाणप्रसिद्धो यस्साध्यधर्मस्स एव विशेषणं यस्येति विग्रहः, निराकृतेति, निराकृतः प्रमाणबाधितो यस्साध्यधर्मस्स एव विशेषणं यस्येति विग्रहः, अनभीप्सितेति, अनभीप्सितोऽनिष्टस्साध्यधर्मो 20 विशेषणं यस्येति विग्रहः । अप्रतीतानिराकृताभीप्सितसाध्यधर्मविशिष्टधर्मिण एव पक्षत्वेनो
पवर्णितत्वात्तद्विपरीतत्वेनैषां पक्षाभासत्वमिति भावः।। - तत्र प्रथमं दर्शयति
आद्यो यथा महानसं वह्निमदिति पक्षीकृते महानसे वह्नः प्रसिद्धत्वादयं दोषः, इदमेव सिद्धसाधनमपि ॥
25 आद्य इति । प्रतीतसाध्यधर्मविशेषणक इत्यर्थः, प्रसिद्धत्वादिति प्रत्यक्षेण निर्णीतस्वादित्यर्थः, निर्णयैकपदवीमधिरूढस्य नहि साध्यत्वं, निर्णीतार्थे न्यायस्याप्रवृत्तः, तथा च