________________
: ३९४ : तस्वन्यायविभाकरे
[ पञ्चमकिरणे निश्चित इति चेन्न, सुषुप्त्यादौ निरभिप्रायवागादिप्रवृत्त्यनापत्तेः, नहि सुषुप्त्यादौ वाग्व्यवहारादिहेतुरिच्छाऽस्ति । न चैषा वागादिप्रवृत्तिरिच्छापूर्विका, वागादिप्रवृत्तित्वात् प्रसिद्धच्छापूर्वकवागादिप्रवृत्तिवदित्यनुमानेन तत्रापि साऽनुमेयैवेति वाच्यम् , हेतोरप्रयोजकत्वात् , यादृशस्य
हि जाग्रतोऽनन्यमनसो वा तत्प्रवृत्तिरिच्छापूर्विका दृष्टा तत्प्रवृत्तिविशेषेण देशान्तरे काला5 न्तरे च तादृशस्यैव तत्प्रवृत्ताविच्छापूर्वकत्वं साधयितुं शक्यते, न पुनरन्यादृशि । न च सुषुप्तस्यान्यमनस्कस्य वा तत्प्रवृत्तिरिच्छापूर्वकत्वेन व्याप्ताववगता तस्मान्न वक्तृत्वं विरुद्धम् ॥
अथापरं हेतुं दर्शयति
द्वितीयो यथा पर्वतो वह्निमान् प्रमेयत्वादिति । अत्र विपक्षे ह्रदादौ प्रमेयत्वं निर्णीतमिति ॥ 10 द्वितीय इति । निर्णीतविपक्षवृत्तिक इत्यर्थः, योजयत्यतिव्याप्ति हेतावत्रेति सपक्षे
महानसादौ विपक्षे ह्रदादौ प्रमेयत्वस्य दर्शनात् किं प्रमेयत्वं वतिना व्याप्तमुत वह्नयभावेनेति व्याप्तेस्सन्दिह्यमानतयाऽनैकान्तिकत्वमिति भावः । व्याप्यत्वासिद्धनामा सोपाधिको हेतुरपि संदिग्धविपक्षवृत्तिक एव, तथाहि साध्यव्यापकत्वे. सति साधनाव्यापकत्वमुपाधिः, यथा
स श्यामो मित्रातनयत्वात्परिदृश्यमानतत्तनयवदित्यत्र शाकाद्याहारपरिणतिपूर्वकत्वमुपाधिः, 15 सत्यपि मित्रातनयत्वे यइशाकाद्याहारपरिणतिपूर्वकस्स एव श्यामो न त्वपर इति, मित्रात
नयत्वस्य हि न व्यापकं शाकाद्याहारपरिणतिपूर्वकत्वं तदन्तरापि मित्रातनयत्वस्य सद्भावात् श्यामत्वस्य तु व्यापकं तत्, तदन्तरेण तस्यानुपलब्धेः, तथा च तस्योपाधित्वेन मित्रातनयत्वं सोपाधिको हेतुः, अयमेव चाप्रयोजको हेत्वाभास उच्यते परप्रयुक्तव्याप्युपजीवित्वात् परश्चोपाधिरेवेति । उपाधिना हेतौ व्यभिचारसंशयोदयात्सन्दिग्धविपक्षवृत्तिरेव ।
१. नहि तदानीमनुभूयमाना इच्छाऽस्ति, तथात्वे पश्चादिच्छान्तरवत्तस्या अपि स्मरणं स्यात् अविदितेच्छा तु न सम्भवति इच्छायास्स्वसमानाधिकरणज्ञानविषयकत्वनियमेनाज्ञातेच्छाया असम्भवादिति भावः ॥ २. वचनं प्रति नियतो हेतुश्चैतन्यं करणपाटवञ्च, न च तयोस्सत्त्वेऽपि वचनप्रवृत्तेरदर्शनात् विवक्षापि सहकारिकारणमिति वाच्यम् , सहकारिकारणस्य नियमेनापेक्षणीयत्वाभावात् नक्तञ्चरादेस्संस्कृतचक्षुषो वाऽनपेक्षितालोकसन्निधे रूपोपलम्भात् तां विना सुषुप्त्यादौ तद्दर्शनाच, क्वचित्तु कण्ठाद्यभिघातजनकप्रवृत्तिजनकेच्छाजनकेष्टसाधनताज्ञानविषयस्येष्टतासम्पादनार्थमुपयुज्यते इति ॥ ३. अत्र सौगता नैयायिकाश्चासाधारणमपि हेतुं संशयजनकत्वेनानैकान्तिक स्वीकुर्वन्ति यथा शब्दो नित्यः श्रावणवादित्यत्र सपक्षे गगनादौ विपक्षे घटादौ न क्वापि हेतुरस्ति पक्षे च वर्तमानस्स नित्यव्यावृत्ततया शब्देऽनित्यत्वस्यानित्यव्यावृत्ततया च नित्यत्वस्य संभावनया संशयजनको भवतीति, तन्न सर्वथा नित्यत्वसाधने विरुद्धत्वात् कथञ्चिदनित्यत्वमन्तरेण श्रावणत्वासम्भवात् , अश्रावणत्वस्वभावपरित्यागेनैव हि श्रावणत्वस्वभावोपपत्तिः कथञ्चिन्नित्यत्वसाधने तु सद्धेतुरेव तेन सहान्यथानुपपत्तिसत्त्वादिति ॥