________________
अनैकान्तिकः ]
म्यायप्रकाश समलङ्कृते
: ३९३ :
यकत्वादिति, अयञ्च हेतुः शब्दविशेषे वर्त्तते नास्ति च शब्दविशेषे, घटादावस्ति मेघादौ नास्ति च, अत्रापि सपक्षो नास्ति । सप्तमो यथा - आकाशविशेषगुणशब्दो बाह्येन्द्रियप्राह्यत्वादिति हेतुरयं शब्दमात्रे विपक्षैकदेशे रूपादौ वर्त्तते न तु सुखादौ विपक्षे सपक्षस्तु नास्त्येव । अष्टमो यथा - आकाशविशेषगुणइशब्दोऽपदात्मकत्वादिति, अत्र हेतुर्ध्वनौ वर्त्तते तु पदात्मकशब्दे, रूपादौ विपक्षमात्रे वर्त्तते सपक्षस्तु नास्त्येवेति । सर्व एवैते तवो 5 प्रोक्तविरुद्ध एवान्तर्भवन्ति, पक्षैकदेशवृत्तिषु असिद्धतापीति ॥
अधुनानैकान्तिकं निरूपयति
सन्दिग्धव्याप्तिको हेतुरनैकान्तिकः । स द्विविधस्सन्दिग्धविपक्षवृतिको निर्णीत विपक्षवृत्तिकश्चेति ॥
सन्दिग्धेति । यस्य हेतोर्व्याप्तिस्सन्दिह्यते स हेतुरनैकान्तिक इत्यर्थः । अयं हि 10 साध्येन विना हेतोर्भावस्य संशये निर्णये वा भवतीत्याशयेन तस्य द्वैविध्यमाह स द्विविध इति । सन्दिग्धेति विपक्षे यस्य वृत्तिस्सन्दिग्धा स इत्यर्थः, निर्णीतेति, विपक्षे यस्य वृत्तिनिर्णीता स इत्यर्थः, विरुद्धो ह्वेतुस्तु विपक्ष एव वृत्तितया निर्णीत इति न साङ्कर्यम् ॥
तत्राद्यस्य निदर्शनमाह—
आयो यथा विवादापन्नः पुरुषो न सर्वज्ञो वक्तृत्वादिति । अत्र 15 विपक्षे सर्वज्ञे वक्तृत्वं सन्दिग्धम् ॥
आद्य इति । सन्दिग्धविपक्षवृत्तिक इत्यर्थः, दोषं हेतौ सङ्क्रमयति अत्रेति, सन्दिग्धमिति, सर्वज्ञः किं वक्ता नवेति संशयात्, न च वक्तुः सर्वज्ञस्य केनाप्यदर्शनान्न वक्ता स इति निश्चीयत एवेति वाच्यम्, अल्पप्रज्ञैरस्माभिस्तस्य भाषमाणस्यादर्शनेऽपि न वक्तेति निश्चेतुमशक्यत्वेन सन्दिग्धत्वात् । ननु सर्वज्ञस्य वचनं विरुद्धं तस्य रागस्वभावविवक्षाजन्य- 20 त्वेन प्रक्षीणमोहे तस्मिन् मोहापरपर्यायरूपतदिच्छाया असंभवात् । तथा च वचनाभाव एव
१. बौद्धा धर्मविशेषविपरीतसाधको धर्मिविशेषविपरीतसाधकश्चेति विरुद्धस्य द्वैविध्यमाहुः तन्न सर्वानुमानोच्छेदप्रसङ्गात् पर्वताधिकरणकधूमस्य सिषाधयिषित वह्निविशेष विपर्ययसाधकत्वेन विरुद्धत्वं वाच्यम्, तश्च तदा स्यात् धूमसामान्योपन्यासेन वह्निविशेषो जिज्ञास्येत । यदा च विशेषं साध्यमभिलषता विशिष्ट एव हेतुरुपन्यस्यते तदा नोक्तदोषः, तथा धर्मिविशेषविपरीतसाधनोऽपि न विरुद्धः, अन्यथा यो यो धूमवान् स पर्वतो न भवति यथा महानसम् इति धर्मिणस्तिरस्काराद्भूमोऽपि हेतुर्न भवेत् तथाचानुमानमात्रविलो प्रापत्त्या नैतौ विरुद्धहेत्वाभासाविति बोध्यम् ॥
५०