________________
तत्त्वन्यायविभाकरे
[पञ्चमकिरणे भवति । यदि चान्यतरासिद्धो वस्तुतो हेत्वाभासस्तदा वादी निगृहीतः स्यात्ततः पश्चादनिग्रहो युक्तः, नवा हेतुसमर्थनं युक्तं निग्रहान्तत्वाद्वादस्येति चेन्मैवम् , सम्यग्घेतुत्वं प्रतिपद्यमानेनापि वादिना तत्समर्थनन्यायविस्मरणादिनिमित्तेन यदा हि प्रतिवादिनं बोधयितुं
न शक्यते न स्वीक्रियते चासिद्धता तदान्यतरासिद्धत्वेनैव स निगृह्यते, एवं स्वानभ्युपग5 मतोऽपि परस्य सिद्ध इत्येतावतैवोपन्यस्यमानो हेतुरन्यतरासिद्धो भवतीति यथा सांख्यस्य जैनं प्रति, अचेतनाः सुखादय उत्पत्तिमत्त्वाद्धटवदिति ॥
सम्प्रति विरुद्धं लक्षयति- साध्यधर्मविपरीतव्याप्तिको हेतुर्विरुद्धः । यथा शब्दो नित्यः कार्य
त्वादिति, अत्र कार्यत्वमनित्यत्वव्याप्यम् ॥ 10 साध्यधर्मेति । केनचित्पुरुषेण साध्यधर्मविपरीतस्यैव व्याप्यो हेतुर्धान्त्या साध्य
व्याप्यत्वेनोपन्यस्यते तदा स साध्यधर्मविपरीतव्याप्तिकत्वाद्विरुद्ध इति भावः । दृष्टान्तमाहयथेति घटयति अत्रेति, अयं पक्षविपक्षव्यापको हेतुः। अत्र परैरष्टविधा विरुद्धभेदा उच्यन्ते यथा पक्षविपक्षव्यापकस्सपक्षावृत्तिः, पक्षव्यापको विपक्षैकदेशवृत्तिस्सपक्षा
वृत्तिश्च,पक्षविपक्षैकदेशवृत्तिस्सपक्षावृत्तिश्च पक्षैकदेशवृत्तिस्समक्षावृत्तिर्विपक्षव्यापकश्च, पक्ष15 विपक्षव्यापकोऽविद्यमानसपक्षश्च, पक्षविपक्षैकदेशवृत्तिरविद्यमानसपक्षश्च, पक्षव्यापको
विपक्षकदेशवृत्तिरविद्यमानसपक्षश्च, पक्षैकदेशवृत्तिर्विपक्षव्यापकोऽविद्यमानसपक्षश्चेति । आद्याश्चत्वारस्सति सपक्षे परे चत्वारश्चासति सपक्षे बोध्यास्तत्र प्रथमो यथा शब्दो नित्यः कार्यत्वादिति कार्यत्वं हि शब्दमात्रेऽनित्यघटादिमात्रे वर्त्तते नतु नित्य आकाशादौ । द्वितीयो यथा-नित्यश्शब्दस्सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात् , अत्रायं हेतुः 20 शब्दमात्रे क्वचिदनित्ये घटादौ वर्त्तते क्वचिच्चानित्ये सुखादौ नित्य आकाशादौ न
वर्त्तत इति । तृतीयो यथा वाङ्मनसे अस्मदादिबाह्यकरणप्रत्यक्षे सामान्यविशेषवत्त्वे सति नित्यत्वादयं हेतुः पक्षैकदेशे मनसि वर्त्तते न तु वाचि, विपक्षैकदेशे गगनादावस्ति न तु सुखादौ, नास्ति पुनर्घटादौ सपक्षे । चतुर्थो यथा-नित्या पृथिवी कृतकत्वादिति हेतुः, इदं
कृतकत्वमनित्यपृथिव्यामस्ति परमाणौ च नास्ति, नित्यमात्रे नास्ति, अनित्यमात्रे चास्ति । 25 पञ्चमो यथा-आकाशविशेषगुणशब्दः प्रमेयत्वादिति, अयं हेतुश्शब्दमात्रेऽनाकाशविशेष
गुणमात्रे च वर्त्तते सपक्षश्चात्र नास्ति । षष्ठो यथा-आकाशविशेषगुणशब्दः प्रयत्नानन्तरी
१. पूर्वोत्तराकारपरिहारप्राप्तिस्थितिलक्षणपरिणामेनैवाविनाभूतं कृतकत्वं बहिरन्तर्वा प्रतीतिविषयः, तच सर्वथा नित्ये क्षणिके वा सम्भवत्येवेति विरुद्धत्वमिति भावः ॥