________________
भसिद्धः ] न्यायप्रकाशसमलते
: ३९१ : अथ वाद्यसिद्धमाह
वाद्यसिद्धो यथा शब्दः परिणामी उत्पत्तिमत्त्वादिति । अत्र शब्दस्योत्पत्तिमत्त्वं वादिनस्सांख्यस्यासिद्धम् ॥
वाद्यसिद्ध इति । इदं प्रतिवादिनोऽनुमानम् । सङ्गमयति अत्रेति, सांख्यस्यासिद्धमिति, तन्मतेऽसत उत्पत्त्यभावात्सतश्च विनाशाभावादुत्पादविनाशयोराविर्भावतिरोभाव- 5 रूपेण प्रागभावप्रतियोगिमत्त्वरूपमुत्पत्तिमत्त्वमसिद्धमिति ॥ ननु विशेष्यविशेषणव्यर्थविशेष्यव्यर्थविशेषणासिद्धास्स्वरूपासिद्धो व्यधिकरणासिद्धादयश्च कथं न हेत्वाभासत्वेनोक्ता इति चेदुच्यते विशेष्यविशेषणव्यर्थविशेष्यव्यर्थविशेषणासिद्धा वादिनः प्रतिवादिनो वोभयोर्वा भविष्यन्तीति तेषां तत्रैवान्तर्भावः । स्वरूपासिद्धः स्वरूपं असिद्धं यस्य सो स्वरूपासिद्धः स्वरूपेणासिद्ध इति वा यथाऽनित्यः शब्दश्चाक्षुषत्वादिति, नायं व्यधिकरणासिद्धः 10 रूपस्य चाक्षुषत्वादित्यनुक्तत्वात् । एवञ्चायं वस्तुतो न हेत्वाभासः तस्य हेतुस्वरूपत्वाभावादेवागमकत्वात् । व्यधिकरणासिद्धो न वस्तुतो हेतुदोषः, विभिन्नाश्रयस्यापि उदेष्यति शकटं कृत्तिकोदयादित्यादेर्गमकत्वप्रतीतेः, एवमन्यत्रापि भाव्यम् ॥
प्रतिवाद्यसिद्धं दर्शयति
द्वितीये प्रतिवाद्यसिद्धो यथा वृक्षाअचेतना मरणरहितत्वादिति । हेतु- 15 रयं वृक्षे जैनस्य प्रतिवादिनोऽसिद्धः, प्राणवियोगरूपमरणस्य स्वीकारात्॥
द्वितीय इति । अन्यतरासिद्धरूप इत्यर्थः, अस्य वादिप्रतिवाद्यन्यतरापेक्षत्वेनादौ प्रतिवाद्यसिद्धमाह प्रतिवाद्यसिद्ध इति, इदं वादिनो बौद्धस्यानुमानम् , मरणरहितत्वादिति विज्ञानेन्द्रियायुर्निरोधो मरणम् । सङ्गमयति हेतुरयमिति, हेतुमाह प्राणेति, द्रुमेष्वप्यागमे विज्ञानेन्द्रियायुषां प्रमाणतस्स्थापितत्वादिति भावः । ननु न सम्भवत्यस्य भेदस्य 20 हेत्वाभासत्वं, प्रतिवाद्युद्भावितासिद्धिं विभाव्य तत्र वादिना प्रमाणेऽनुद्भाविते प्रमाणाभावादेवोभयोरसिद्धत्वात् , उद्भाविते चोभयोरेव तत्सिद्ध्याऽन्यतरासिद्धत्वासम्भवात् प्रमाण. स्यापक्षपातित्वात् । न च यावत् प्रमाणानुद्भावनं तावदसिद्धमिति वाच्यम् , तथा सति गौणत्वापत्तेः, नहि रत्नादिपदार्थो यावत्तत्त्वतोऽप्रतीयमानस्तावन्तं कालं मुख्यतया तदाभासो
१. अविनाभावस्यैव गम्यगमकभावनिबन्धनत्वं न सामानाधिकरण्यस्य, तदभावेऽप्यनुमितिदर्शनादित्याह व्यधिकरणेति, तत्सत्त्वेऽपि स श्यामो मित्रातनयत्वादित्यादेरगमकत्वादिति भावः ॥ २. अन्यत्रापि भागासिद्धसंदिग्धासिद्धादावपीत्यर्थः, एषामुभयस्यान्यतरस्य वाऽसिद्धत्वादुक्तेष्वन्तर्भाव इति भावः । पक्षतावच्छेदको हेतुर्न हेवाभासः, प्रमाणं स्वपरव्यवसायिज्ञानमेव भवति, प्रमाणत्वान्यथानुपपत्तेरित्यादेर्गमकत्वादिति ।।