________________
तत्त्वन्यायविभाकरे
[ पञ्चमकिरणे भद्रस्य हेतुरेकान्तसाधने ॥” इति, तदिदमिष्टमपि नितरां संक्षिप्ततया शिष्यमतिविकासनाय तत्स्वरूपप्रदर्शनस्यावश्यकतयाऽत्र त्रैविध्यमादर्शितम् , केचिच्च तीर्थान्तरीयोपन्यस्तहेतुषु प्रत्येकं दोषत्रयं मन्यन्ते यथा अनित्य एव शब्दः कृतकत्वादित्यादौ कृतकत्वमसिद्धं, एकान्तानित्ये तदसम्भवात् । नित्यानित्यात्मकस्यैव कृतकत्वसम्भवात् । एकान्तानित्यविपरीतनित्यानि5 त्यात्मकस्यैव शब्दस्य साधकत्वेन विरुद्धम् । विपक्षेऽपि नित्ये वर्तमानत्वाच्चानैकान्तिकम
पीति ॥ अकिञ्चित्करोऽपि न हेत्वाभासान्तरं तद्धि सिद्धसाधनरूपं बाधितविषयरूपञ्च, द्विविधमपीदमप्रयोजकापराभिधानं पक्षदोषेष्वेवान्तर्गतम् । न च यत्र पक्षदोषस्तत्रावश्यं हेतुदोषोऽपि वाच्य इति वाच्यं तथा सति दृष्टान्तादिदोषस्याप्यवश्यं वाच्यत्वापत्तेरिति ॥
अधुनाऽसिद्धं लक्षयति10 हेतुस्वरूपाप्रतीतिप्रयुक्ताप्रतीतव्याप्तिको हेतुरसिद्धः ॥
हेतुस्वरूपेति । अप्रतीतव्याप्तिको हेतुरिति हेतोः सत्त्वस्यासिद्धौ संदेहे वाऽप्रतीतव्याप्तिक इत्यों न तु व्याप्तेर्वैपरीत्येन निश्चयात् संशयाद्वाऽप्रतीतव्याप्तिकस्तादृशस्य विरुद्धानैकान्तिकत्वात् तदेतत्सूचयितुं हेतुस्वरूपाप्रतीतिप्रयुक्तेति विशेषणम् । यत्र सत्त्वं नास्ति
तस्य संशयो वा स हेतुरेव न भवति तथा च तादृग्वस्तु हेतुत्वलक्षणविरहादसिद्धं, न तु 15 पक्षधर्मत्वाभावात् । नहि पक्षधर्मत्वं हेतोर्लक्षणमन्यथानुपपत्तिबलेन तदभावेऽप्यनुमाना
द्धेतुत्वस्य पूर्वमुपदर्शितत्वात् । यथा नित्यश्शब्दश्चाक्षुषत्वादित्यादौ व्याप्तित्वरूपलक्षणविरहाच्चाक्षुषत्वमसिद्धं, स्वरूपाप्रतीतिश्चात्रासत्वात् । तथा बाष्पादिभावेन सन्दिह्यमानो धूमो वह्निसिद्धौ प्रयुज्यमानोऽसिद्ध उच्यते तत्र संदिग्धसत्त्वेन व्याप्त्यभावादिति ॥
तस्य प्रभेदमाह20 स द्विविधो वादिप्रतिवाद्युभयासिद्धोऽन्यतरासिद्धश्चेति । तत्राद्यो
यथा शब्दोऽनित्यश्चाक्षुषत्वादिति, अत्र शब्दस्य चाक्षुषत्वं नोभयस्य सिद्धम् ॥
स इति । असिद्ध इत्यर्थः, वादीति, वाद्यपेक्षया प्रतिवाद्यपेक्षया चासिद्ध इत्यर्थः । अन्यतरेति वाद्यपेक्षया प्रतिवाद्यपेक्षया वेत्यर्थः । पूर्वपक्षं विदधानो वादी, उत्तरपक्षमव25 लम्बमानः प्रतिवादी, प्रथमभेदस्य दृष्टान्तमाह तत्राद्य इति, चक्षुषा ग्राह्यश्चाक्षुषस्तस्य भाव
श्चाक्षुषत्वं तस्मादिति विग्रहश्चक्षुर्जन्यज्ञानविषयत्वं तदर्थः, तच्च नित्यत्ववादिनोऽनित्यत्ववादिनो वा कस्यापि शब्दे न सम्मतमिति वादिप्रतिवाद्युभयापेक्षोऽयमसिद्ध इति भावः ॥