________________
हेत्वाभासाः । ] न्यायप्रकाशसमलङ्कृते
: ३८९ : साध्यधर्मस्येति । साध्यधर्मस्य वह्नयादेस्तद्धर्मिणि पर्वतादौ येन वचनेनोपसंहरणं तद्वचनं निगम्यन्ते प्रतिज्ञाहेतूदाहरणोपनयार्था अनेनेति निगमनमित्यर्थः । तत्र दृष्टान्त. माह तस्मादिति वह्निव्याप्यधूमवत्त्वादित्यर्थः तथा-पर्वतो वह्निमानित्यर्थः । एते नान्तरीय कत्वप्रतिपादका वाक्यैकदेशरूपाः पञ्चावयवाः प्रदर्शिता इत्याशयेनाहेतीति, इत्थमित्यर्थः, सद्धेतुनिरूपणं व्याप्तिविशिष्टहेतुनिरूपणमित्यर्थः ॥
इतितपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसू. रिणा विनिर्मितस्य तत्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां सद्धतुनिरूपणं नाम चतुर्थः किरणः ॥
अथ पञ्चमः किरणः॥ अथ हेतुप्रसङ्गाद्धेत्वाभासान्निरूपयितुमुपक्रमते
असिद्धविरुद्धानकान्तिकास्त्रयो हेत्वाभासाः ॥ असिद्धेति । हेत्वाभासा इति हेतुवदाभासन्त इति हेत्वाभासाः, दुष्टहेतव इत्यर्थः, हेतुस्वरूपस्य निश्चितव्याप्तिमत्त्वस्याप्रतीतिविपर्याससंदेहैः पञ्चम्यन्तत्वेन च हेतोरिवाभासमानत्वादसिद्धादीनां हेत्वाभासत्वमवसेयम् । त्रय इति संख्यान्तरव्यवच्छेदाय, तेन 15 बाधसत्प्रतिपक्षयोर्हेत्वाभासत्वव्यवच्छेदः । बाधस्य पक्षदोषेष्वन्तर्भावात् । सत्प्रतिपक्षस्य दोषत्वासम्भवाच्च । यथोक्तलक्षणेऽनुमाने प्रयुक्तेऽदूषितेऽनुमानान्तरस्यासम्भवात् । तुल्यबले साध्यतद्विपर्ययसाधकहेतुद्वये सत्यपि तत्र प्रकृतसाध्यसाधनयोप्त्यनिश्चयेऽसिद्ध एवान्तभर्भावसम्भवाच्च । अत्रेदम्बोध्यमनेकान्तविरुद्धबुद्धिभिरुपन्यस्यमानास्सर्व एव हेतवोऽसिद्धा इत्येकविध एव हेत्वाभास इति श्रीसिद्धसेनदिवाकरसूरयः । विरुद्ध एवेति विरुद्ध एक 20 एवेति मल्लवादिनः, समन्तभद्राचार्यास्तु तेऽनैकान्तिका इति स एव हेत्वाभास इत्याहुः, शिष्टानां तत्रैवान्तर्भावात् तदुक्तं ' असिद्धस्सिद्धसेनस्य विरुद्धो मल्लवादिनः । द्वेधी समन्त
१. नित्यश्शब्दोऽनुपलभ्यमानानित्यधर्मकत्वात् अनित्यश्शब्दोऽनुपलभ्यमाननित्यधर्मकत्वादित्यत्र सत्प्रतिपक्षता वक्तव्या सा च न सम्भवति, अनुपलभ्यमाननित्यधर्मकत्वस्य पक्षेऽसत्त्वेऽसिद्धरेव दोषत्वात् , साध्यधर्मान्वितधर्मिणि तत्सिद्धौ गमकत्वमेव स्यात् , अविनाभावसत्त्वात् पश्चात्तत्र साध्यं सिद्धयति नेदानीमिति चेत्तर्हि विरुद्धता स्यात्, इदानीमत्र संदेहस्साध्यस्येति चेदनकान्तिकत्वं, न च पक्षान्तविण व्य. भिचारो न दोषः विपक्षव्यावृत्तस्य सपक्षे पक्षे च सत एव गमकत्वादिति वाच्यम्, पक्षान्तर्भावेण व्याय निश्चये धर्म्यन्तर एव स्वसाध्येन व्याप्तिनिश्चये पक्षे हेतुसत्त्वेऽपि स्वसाध्यासाधकत्वापत्तेः तत्र व्याप्तरग्रहणादिति न सत्प्रतिपक्षो दोष इति भावः ॥ २. अनैकान्तिक इत्यर्थः ।