________________
: ३८८ : तत्त्वन्यायविभाकरे
[ चतुर्थकिरणे दृष्टान्तेति । वक्ष्यमाणलक्षणो दृष्टान्तस्तत्प्रतिपादकं वचनमुदाहरणमित्यर्थः । दृष्टान्तस्वरूपमाह साधर्म्यत इति व्याप्तिस्मरणस्थानं दृष्टान्त इति, व्याप्तिर्हि द्विविधा, अन्तर्व्याप्तिर्बहिर्व्याप्तिरिति, पक्षीकृत एव साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिः, पक्षीकृतादहि
दृष्टान्तादौ तस्य तेन व्याप्तिर्बहिर्व्याप्तिः तथा च प्रोक्तबहिर्व्याप्तिस्मरणं यत्र भवति स 5 दृष्टान्त इत्यर्थः कस्यचित्प्रमातुर्दृष्टान्तदृष्टबहिर्व्याप्तिबलेयन्ताप्तिप्रतिपत्तिर्भवतीति स्वार्था
नुमानेऽपि क्वचिदङ्गं बोध्यम् । तद्भेदज्ञापनायाह साधर्म्यतो वैधर्म्यतो वेति, साधनसत्ताप्रयुक्तसाध्यधर्मसत्तारूपान्वयतः साध्याभावसत्ताप्रयुक्तसाधनाभावसत्तारूपव्यतिरेकतो वेत्यर्थः, तत्र निदर्शनमाह यथेति धूमसत्ताप्रयुक्तवह्नियोगित्वान्महानसं साधर्म्यदृष्टान्तः, वह्निनिवृत्ति
प्रयुक्तधूमनिवृत्तियोगित्वाद्धदो वैधर्म्यदृष्टान्त इति भावः । साध्यं व्यापकं भवति साधनन्तु 10 व्याप्यं, व्यापकञ्च व्याप्यसद्भावेऽसद्भावे च भवति, व्याप्यन्तु व्यापकसद्भाव एव । तथा
च तत्सत्ताप्रयुक्ततत्सत्तायोगिदृष्टान्तप्रतिपादकं वचनं साधोदाहरणमित्येकम् । व्यापकस्य निवृत्तिाप्यं भवति, व्याप्यस्य निवृत्तिश्च व्यापकं भवति तथा च तन्निवृत्तिप्रयुक्ततन्निवृत्तियोगिदृष्टान्तप्रतिपादकं वचनं वैधोदाहरणमित्यपरं पर्यवसन्नम् । तदुक्तं " व्याप्य
व्यापकभावो हि भावयोर्यादृगिष्यते । स एव विपरीतस्तु विज्ञेयस्तदभावयोः" इति ॥ 15 यस्तु दार्टान्तिके हेतुं योजयितुं न जानीते तं प्रत्युपनयस्यावश्यकत्वात्तत्स्वरूपमाह
दृष्टान्तप्रदर्शितसाधनस्य साध्यधर्मिण्युपसंहारवचनं उपनयः । यथा तथा चायमिति ।
दृष्टान्तेति । साधनधर्मप्रयुक्तसाध्ययोगिनि साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगिनि वा दृष्टान्ते प्रदर्शितस्य हेतोस्साध्यधर्मिणि य उपसंहारो योजना तत्प्रतिपादकं वचन20 मुपनीयते साध्यधर्मिण्युपसंहियते व्याप्तिविशिष्टो हेतुर्येन वचनेनेत्युपनयो दृष्टान्ते साध्येन
सह दृष्टस्य हेतोस्साध्यधर्मिण्यनुसन्धानवचनमिति भावार्थः, साध्यधर्मिण्युपसंहारवचनमन्यस्यापि सम्भवतीति साधनस्येत्युक्तम् , दृष्टान्तप्रदर्शितसाधनस्यान्यत्राप्युपसंहारवचनं तथा स्यादिति साध्यधर्मिणीत्युक्तम् साध्यधर्मिणि गृहीताविनाभावस्य साधनस्य प्रतिपादकं हेतु
वचनमपीति दृष्टान्तप्रदर्शितसाधनस्येत्युक्तम् । उपनयस्य दृष्टान्तमाह यथेति ॥ 25 दार्टान्तिके हेतुं योजयित्वापि यस्साकांक्षस्तं प्रति निगमनस्यावश्यकत्वात्तत्स्वरूपमाह
साध्यधर्मस्य धर्मिण्युपसंहारवचनं निगमनम् । यथा तस्मात्तथेति ॥ इति सद्धेतुनिरूपणम् ॥