________________
उदाहरणम् ]
न्यायप्रकाशसमलङ्कृते
: ३८७ :
धूमस्यान्यथानुपपत्तेरिति च । एकत्रो भयोः प्रयोगो नावश्यकः । अन्यतरेणैव साध्यसिद्धेः ॥
उपपत्तीति । हेतुप्रयोगो हेतुवचनमिति । हेतुत्वेन हेतोरभिधायकशब्दप्रयोगो हेतुवचनमित्यर्थः । हेतुत्वेन हेतोरभिधानं नाम तदभिव्यञ्जकविभक्त्यन्तत्वं सा च विभक्तिः पञ्चमी तृतीया वा, तथा च हेतुत्वव्यञ्जकविभक्त्यन्तत्वे सति हेतुप्रयोगत्वं लक्षणम्, धूम इति 5 वचनवारणाय सत्यन्तम्, वह्निमान् द्रव्यत्वादित्यादौ द्रव्यत्वादित्यव्याप्तवचनवारणाय हेतुप्रयोगत्वमिति, तत्र व्याप्तेरभावान्नैतद्वाक्यं हेतुप्रयोगरूपमिति । कथं तस्य प्रयोग इत्यत्राहोपपत्त्यनुपपत्तिभ्यामिति, सहार्थे तृतीया, उपपत्त्यनुपपत्तिपदं तद्बोधकशब्दपरम् । तथा चोपपत्तिपदेन सहानुपपत्तिपदेन सहेत्यर्थः, तत्र दृष्टान्तमाह-यथेति, व्याप्त्युपदर्शनार्थं हेतुप्रयोगो बोध्यः । तथैवेति वह्नौ सत्येवेत्यर्थः, धूमस्यान्यथानुपपत्तेरिति वह्नावसति 10 धूमानुपपत्तेरित्यर्थः । ननु उपपत्त्यनुपपत्तिभ्यामिति द्विवचनान्तेन पदेनोभयोः प्रयोगनियमो गम्यते तच्च न युक्तं तयोरेकतरस्याः प्रयोगेणैव व्याप्तिबोधेन साध्यसिद्धेरन्यतरस्याः प्रयोगे नैरर्थक्यापातादित्यत्रेष्टापत्तिमाविष्करोति एकत्रेति, एकस्मिन् साध्ये द्विविधप्रयोगस्य निष्फलत्वमेवेत्यर्थः, तत्र हेतुमाहान्यतरेणैवेति, तथैव हेतोरुपपत्तेरन्यथानुपपत्तेर्वा प्रयोगेणेत्यर्थः, व्यायुपदर्शनार्थं हि हेतुप्रयोगस्तच्चैकेनैव निष्पन्नमिति 15 विफलो द्वयोः प्रयोग इति भावः । ननु शब्दः प्रयत्नानन्तरीयकः कादाचित्कत्वादित्यादौ प्रयत्नानन्तरीयकेषु सर्वत्र कादाचित्कत्वस्य सवेन तथोपपत्तिसत्वेऽप्यगमकत्वेन कथमन्यतरेण साध्यसिद्धिस्तत्रान्यथानुपपत्तेरभावादेवानुमानाभावादिति चेन्न तत्र तथोपपत्तेरेवाभावात् नहि प्रयत्नानन्तरीयकेषु सर्वत्र कादाचित्कत्वसत्त्वमेव तथोपपत्तिः किन्तु तथैवोपपत्तिरेव-साध्यसत्त्वे एव हेतुसत्त्वरूपं न तादृशं प्रकृतेऽस्ति, अप्रयत्नानन्तरीयकेऽपि 20 विद्युदादौ कादाचित्कत्वस्य भावात् तथा च तथैवोपपत्तिकथनेऽप्यन्यथानुपपत्तिर्गम्यत एव तथाऽन्यथाऽनुपपत्तिमात्राभिधानेऽपि तथैवोपपत्तिर्गम्यत एव तात्पर्यस्य शब्दभेदेऽप्यभेदात् । तथा च तथोपपत्त्यन्यथानुपपत्त्योः परस्पराव्यभिचारित्वेनैकप्रयोगेऽपरस्य तात्पर्य तो लब्धेरन्यतरप्रयोगो निरर्थक एवेति भावः ॥
यस्तु क्षयोपशम विशेषाभावेन पक्षहेतुप्रयोगेऽपि पूर्वप्रतिपन्नप्रतिबन्धं न स्मरति तम्प्रति 25
दृष्टान्तवचनस्यावश्यकतया तत्स्वरूपमाह -
दृष्टान्तबोधकशब्दप्रयोग उदाहरणम् । साधर्म्यतो वैधर्म्यतो वा व्याप्तिस्मरणस्थानं दृष्टान्तः । यथा महानसादिर्हदादिश्च ॥