________________
तस्वन्यायविभाकरे
[ चतुर्यकिरणे बोध्यास्तु नैकविधास्तथा चाव्युत्पन्नप्रज्ञान प्रति कदाचिदुदाहरणोपनयनिगमनान्यपि वक्तव्यान्येव भवन्तीति मन्वानः प्राह मन्दमतिमिति । अपिशब्दोऽनुक्तसमुच्चायकः तेन प्रतिज्ञाशुद्धिहेतुशुद्धिदृष्टान्तशुद्ध्यपनयशुद्धिनिगमनशुद्धीनां ग्रहणम् , तथा च कथाया बोध्यापेक्षया जघन्यमध्यमोत्कृष्टभेदेन त्रैविध्यं वेदितव्यम् , अतिव्युत्पन्नमत्यपेश्या केवलं हेतुवचनं जघन्या 5 कथेयम् , मध्यमापेक्षया प्रतिज्ञादीनां व्यादीनां वचनं मध्यमा कथा, अतिमन्दमत्यपेक्षया
च पञ्चशुद्धिसहितानां प्रतिज्ञादीनां पञ्चानां वचनमुत्कृष्टा कथेति । प्रतिपाद्यापेक्षयैवैषां प्रयोगायेन प्रकारेण तस्य प्रतीतिर्भवेत्तथैव प्रतिपादनीयो न तु क्रमेणैव प्रतिपादनीय इत्यस्ति नियमः, तत्र पक्षदोषपरिहारादिः प्रतिज्ञाशुद्धिः, हेत्वाभासोद्धरणं हेतुशुद्धिः,
दृष्टान्तदूषणपरिहरणं दृष्टान्तशुद्धिः उपनयनिगमनयोः प्रमादादन्यथाकृतयोर्नियतस्वरूपेण 10 व्यवस्थापके वाक्ये उपनयनिगमनशुद्धी । प्रतिज्ञादय एते परानुमानरूपकार्यस्याङ्गभूतत्वादवयवा इत्युच्यन्ते ॥
अथ प्रतिज्ञाया लक्षणमाह
अनुमेयधर्मविशिष्टधर्मिबोधकशब्दप्रयोगः प्रतिज्ञा । यथा पर्वतो वह्निमानिति वचनम् ॥ 15 अनुमेयेति । अनुमेयः प्रतिपिपादयिषितो यो धर्मो वह्नयादिस्तद्विशिष्टस्य धर्मिणो
बोधको बोधजनको यशब्दप्रयोगः पर्वतो वह्निमानित्यादिरूपस्स प्रतिज्ञेत्यर्थः । साध्यधर्मस्याधारे संशयव्युदासाय साध्यस्य विशिष्टधर्मिसम्बन्धित्वावबोधकं प्रतिज्ञावचनमावश्यकम् । भवति हि पर्वतो वह्निमानिति प्रयुक्तेन वचनेन वहिमान् पर्वतो घटो वेति संशयस्य निवृत्तिः,
वह्नौ पर्वतसम्बन्धित्वबोधश्चेति । धर्मविशिष्टता ह्यस्तित्वाद्यपेक्षया सर्वपदार्थेष्विति तद्बोध20 कवचनव्यावृत्तये प्रतिपिपादयिषितार्थकमनुमेयपदं धर्मविशेषणतयोपात्तम् । धर्मिणि निर्दुष्टत्वमपि विशेषणं देयं तेन न पक्षाभासेऽतिव्याप्तिः । दृष्टान्तमाह यथेति ।।
अथ हेतुवचनं लक्षयतिउपपत्त्यनुपपत्तिभ्यां हेतुप्रयोगो हेतुवचनम् । यथा तथैव धूमोपपत्तेः, १. एतेन प्रयोजनाभावात्पक्षवचनमनर्थकमिति बौद्धोक्तिनिरस्ता प्रतिपाद्यप्रतिपत्तिविशेषस्य तत्साध्यप्रयोजनस्य सद्भावाच्च । तच्च हेतूपन्याससमन्वितमेव साध्यं प्रतिपादयति, न च तर्हि तस्मादेव तत्र सामर्योपपत्तेः किं पक्षवचगेनेति वाच्यम् । तथा सति हेतोः समर्थनापेक्षस्य साध्यसिद्धिनिबन्धनत्वोपपत्तौ हेतुवचनस्यापि वैयापत्तेः हेतोरवचने कस्य समर्थनमिति चेत्पक्षस्याप्यप्रयोगे व हेतुस्साध्यं साधयेदिति न्यायस्य तुल्यत्वादिति ॥