________________
न्यायप्रकाशसमलङ्कते विज्ञानस्यैव परार्थत्वे तत्त्वेन पक्षादिप्रतिपादकवचनानां कथनं प्राचामसङ्गतं स्यादित्यत्राहोपचारादिति, नेदं वचनं निरुपचरितपरार्थानुमानमचेतनत्वात् किन्तु मुख्यानुमानहेतुत्वेन परार्थ तदपि स्यात् कारणे कार्यस्य समारोपात्, अनुमानतोऽयं मयाऽवबोधनीय इत्यभिप्रा. यवत्पुरुषप्रयुक्तपक्षादिववचनेन हि श्रोतुः परस्य व्याप्तिविशिष्टहेतुस्मरणादिद्वारा साध्यविज्ञानमनुमानात्मकमुदेति । ननूपचारस्तत्र भवति यत्र मुख्यबाधः प्रयोजनं सम्बन्धश्च भवे. 5 दत्र कथमुपचारत्वमिति चेन्न ज्ञानमेव हि प्रमाणं, तत्कथं जडरूपं वचनं परार्थानुमानरूपं प्रमाणं भवेदतोऽस्ति ज्ञान प्रमाणमिति मुख्यस्य बाधः, कारणान्तरवैलक्षण्येन कार्यकारित्व. मस्य प्रयोजनम् , पक्षादिवचनवदन्यस्य कस्यापि परस्यानुमानजनकताया अप्रसिद्धेः । सम्बन्धोऽपि कार्यकारणभावरूपो वर्त्तत एव, अनुमानतोऽयं मयाऽवबोधनीय इतीच्छया वक्ता पक्षादिवचनं प्रयुङ्क्ते, श्रोतापि एतद्वचनश्रवणद्वारा व्याप्तिमल्लिङ्गादमुमर्थमवबुद्धवानिति 10 मन्यत इति श्रोतुः प्रतीतिकारणत्वमस्तीति भावः ।।
ननु परः कतिभिर्वचनैर्व्याप्तिमल्लिङ्गमवबुध्यत इत्यत्राह-- वचनश्च प्रतिज्ञाहेत्वात्मकम् । मन्दमतिमाश्रित्य तूदाहरणोपनयनिगमनान्यपि ॥
वचनश्चेति । प्रतिपाद्या हि विचित्राः केऽपि व्युत्पन्नमतयः केऽपि नितरामव्युत्पन्ना 15 नितरां केचिद्व्युत्पन्नाः, तत्र व्युत्पन्नमतिः प्रतिज्ञावचनेन हेतुवचनेन व्युत्पादयितुं शक्यः, नितरां व्युत्पन्नस्तु केवलं हेतुवचनेन व्युत्पादितो भवति तस्मान्मुख्यतया प्रतिज्ञारूपं हेतुरूपञ्च द्विविधवचनमुपयोगि, तावतैव प्रतिपन्नविस्मृतव्याप्तेः प्रमातुस्साध्यप्रतिपत्तेनियमेनोदयात् , अतस्तं प्रति दृष्टान्तादिवचनं व्यर्थमेव । व्याप्तिनिर्णयस्यापि तस्य तर्कप्रमाणादेव जातत्वात् प्रतिनियतव्यक्तिरूपदृष्टान्तस्य सर्वोपसंहारेण व्याप्तिबोधनाननुकूलत्वादिति 20 भावः, ननु परार्थप्रवृत्तः कारुणिकैः परे यथाकथञ्चिद्वोधयितव्या न तेषां प्रतीतिभङ्गः करणीयस्तस्माद्यथा यथा परस्य सुखेन साध्यप्रतिपत्तिर्भवेत्तथा तथा प्रतिपादकेन प्रतिपादनीयः,
१. एतेन नास्यानुमानवचनस्यानुवादमात्रता, इतरानधिगतार्थोपदेशकत्वात् , अन्यथाऽप्तवचनस्यापि अनुवादमात्रत्वं स्यात् , इदानीं स्वावगतार्थबोधकत्वादिति सूचितम् ॥ २. पक्षहेतुवचनाभ्यामेवाविस्मृतव्याप्तिकः पुरुषो बोधयितुं शक्य इति न तदर्थ दृष्टान्तवचनस्यावश्यकता, व्याप्तिनिर्णयस्तु तर्कादेव व्याप्तिस्मृतिरपि व्युत्पन्नस्य पक्षहेतुप्रदर्शनाभ्यामेव भवति, उपनयनिगमने अपि न परप्रतिपत्त्यर्थं भवतः. समर्थ नं विनाऽसम्भवादिति भावः ॥