________________
तस्वन्यायविभाकरे
[ चतुर्थकिरण
अस्त्यत्र छाया औष्ण्यानुपलब्धेरिति साध्यविरुद्धतापव्यापकानुप foधः । अस्त्यस्य मिथ्याज्ञानं सम्यद्दर्शनानुपलब्धेरिति साध्यविरुद्ध सम्यग्ज्ञान सहचरानुपलब्धिः ॥
: ३८४ :
अस्त्यत्रेति । स्पष्टम् । विरुद्धसहचरानुपलब्धि दृष्टान्तयति, अस्तीति स्पष्टम्, 5 समाप्तो हेतुविभागः ॥
इत्येवं हेतुनिरूपणेन धर्मिसाध्यसाधनानां साकल्येन निरूपणादनुमाने निरूपितेऽपि तत्र किञ्चिद्विशेषं ज्ञापयितुमाह
अनुमानं द्विविधं स्वार्थं परार्थश्च । वचननिरपेक्षं विशिष्टसाधनात्साध्यविज्ञानं स्वार्थम् । यथाहि वह्निधूमयोर्गृहीताविनाभावः पुरुषः 10 कदाचिद्भूधरादिसमीपमेत्य तत्राविच्छिन्नधूम लेखां पश्यन् यो यो स स वह्निमानित स्मृतव्याप्तिकः पर्वतो वह्निमानिति प्रत्येति । इदमेव स्वार्थमुच्यते ॥
'धूमवान्
अनुमानमिति । स्वार्थं स्वात्मप्रतिपत्तिहेतुकं परार्थं परप्रतिपत्तिहेतुकम् । स्वार्थलक्षणमाह वचननिरपेक्षमिति, पूर्वोदितपक्षहेतुप्रतिपादकशब्दविशेषो वचनं तदपेक्षणरहित - 15 मित्यर्थः, विशिष्टसाधनादिति निश्चितव्याप्तिमत्साधनादित्यर्थः, स्वस्मै पदार्थपरिच्छेदे शब्दप्रयोगानपेक्षतया स्वयमेव निश्चिताद्व्याप्तिविशिष्टसाधनात् साध्यज्ञानं यत्समुदेति तत्स्वार्थमित्यर्थः, तदुत्पत्तिप्रकारमाह-यथाहीति । गृहीताविनाभाव इति, सकृदस कृद्वोपलम्भानुपलम्भाभ्यां तर्केण गृहीतव्याप्तिक इत्यर्थः, भूधरादिसमीपमेत्येति, धर्मिज्ञानसम्पादनायेदं वचनम्, अविच्छिन्नधूमलेखामिति, व्याप्तिस्मारकतयास्योपयोगः, गोपालघटिकास्थधूमा20 दिव्यावर्त्तनायाविच्छिन्नेति स्मृतव्याप्तिक इति, संस्कारस्य प्रबोधेन व्याप्तिस्मरणवानित्यर्थः । इदमेवेति, एवं रूपेण जातं वह्निविशिष्टपर्वतज्ञानमित्यर्थः । स्वार्थमिति, स्वव्यामोहनिवर्त्तनक्षमत्वात्स्वार्थमित्यर्थः ॥
परार्थानुमानस्वरूपमाह—
वचनसापेक्षं विशिष्टसाधनात्साध्यविज्ञानं परार्थम् । उपचाराद्वच25 नमपि परार्थम् ॥
वचनसापेक्षमिति । स्वस्मिन्निश्चितस्यानुमानस्य परं प्रति प्रबोधयितुं वचनमन्तरेणासम्भवाद्वचनसापेक्षं यन्निश्चितव्याप्तिमत्साधनप्रयोज्यं साध्यविज्ञानं तत्परव्यामोहनिवर्त्तनक्षमत्वात्परार्थानुमानमिति भावः । ननु वचनप्रयोगप्रयुक्तनिश्चितव्याप्तिकसाधनजन्य साध्य