________________
प्रतिषेधहेतवः ] न्यायप्रकाशसमलते
: ३८३ : कोदयानुपलम्भरूपोऽयं हेतुः । सहचरानुपलब्धि दृष्टान्तयति नास्त्यस्येति, अत्र प्रतिषेध्यसम्यग्ज्ञानाविरुद्धसहचरसम्यग्दर्शनानुपलम्भरूपोऽयं हेतुरिति । इमान्यप्युदाहरणानि स्वभावकार्यादीनां साक्षादनुपलम्भरूपहेतुद्वारा दर्शितानि, परम्परानुपलम्भरूपा हेतवोऽन्यत्र विलोकनीयाः॥
अथ विधिसाधकसाध्यविरुद्धानुपलब्धिरूपं निषेधहेतुं विभजतेविरुद्धनिषेधात्मको हेतुर्विधिप्रतीतो कार्यकारणस्वभावव्यापकसहचरभेदेन पञ्चधा॥
विरुद्धेति, तथा च विरुद्धकार्यानुपलब्धिविरुद्धकारणानुपलब्धिविरुद्धस्वभावानुपलब्धिविरुद्धव्यापकानुपलब्धिविरुद्धसहचरानुपलब्धिभेदेन पञ्चविधो विधिसाधको निषेधहेतुरिति भावः ।।
10 तत्र प्रथमद्वितीयतृतीयहेतूनां निदर्शनान्याह- अत्र शरीरिणि रोंगातिशयो वर्तते नीरोगव्यापारानुपलब्धेरिति साध्यविरुद्धारोग्यकार्यव्यापारानुपलब्धिरूपो निषेधहेतुः। अस्त्यस्मिन् जीवे कष्टमिष्टसंयोगाभावादिति साध्यविरुद्धसुखकारणानुपलब्धिः। सर्व वस्त्वनेकान्तात्मकमेकान्तस्वभावानुपलम्भादिति साध्यविरुद्धस्वभावा- 15 नुपलब्धिः ॥ ____ अत्रेति । पञ्चविधेषु हेतुष्वित्यर्थः, शेषं स्पष्टम् । विरुद्धकारणानुपलब्धिमाहास्तीति, स्पष्टम् । विरुद्धस्वभावानुपलब्धिमाह सर्वमिति, नैकोऽनेकः, स चासावन्तश्च धर्मोऽनेकान्तस्स एवात्मा स्वरूपं यस्य तदनेकान्तात्मकं तत्त्वं साध्यधर्मः, सर्वमित्यान्तरबाह्यपदार्थसमूहो धर्मी, एकान्तस्वभावस्सदसदाद्यन्यतरात्मकः, तस्यानुपलम्भादिति हेतुः । अत्र साध्येना- 20 नेकान्तात्मकत्वेन विरुद्धो यस्स्वभावस्सदसदाद्यन्यतरस्वभावः तस्य प्रमाणमात्रेणानुपलम्भरूपोऽयं हेतुः । प्रमाणहिँ स्वरूपेण सदात्मकाः पररूपेणासदात्मकास्सन्तस्सामान्यविशेषात्मका नित्यत्वानित्यत्वाद्यनेकधर्माण एव पदार्थाः प्रतीयन्ते न केवलं सद्रूपा असद्रूपा वा सामान्यस्वरूपा विशेषस्वरूपा वा नित्या अनित्या वा पदार्थास्तेभ्यो विरुद्धस्वभावानुपलब्ध्याऽनेकान्तात्मकत्वसिद्धिरिति ।।
25
चतुर्थ पञ्चमञ्च हेतुमाह -