________________
: ३८२ :
तत्त्वन्याय विभाकरे
[ चतुर्थकिरणे
साकल्यवतो घटादेस्तु नियमेनोपलम्भयोग्यत्वं गम्यते उपलम्भकारणसाकल्यनिश्चयश्च घटस्यैकज्ञानसंसर्गिणि प्रदेशादावुपलभ्यमानत्वात् घटप्रदेशयोरुपलम्भकारणस्य तुल्यत्वात् । यद्देशवृत्तित्वेन यस्य कल्पना स एव तेनैकज्ञानसंसर्गी न देशान्तरस्थः, एकेन्द्रियग्राह्यं हि लोचनादिप्रणिधानाभिमुखवस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गीत्युच्यते तयोर्हि विद्यमानयोर्नैक निय5 ताभावप्रतिपत्तिर्योग्यताया द्वयोरप्यविशिष्टत्वात् । एवञ्च कल्पितस्यैकज्ञानसंसर्गित्वे सिद्धे एकज्ञानसंसर्गिपदार्थान्तरोपलम्भे योग्यतया सम्भावितस्य घटस्य दृश्यस्यानुपलम्भस्सिद्ध्यति ।।
व्यापकानुपलब्धिकार्यानुपलब्धिकारणानुपलब्धीः दर्शयति
अत्र शिंशपा नास्ति वृक्षाभावादित्यविरुद्धव्यापकानुपलब्धिर्नास्त्यत्र सामर्थ्यवद्वीजमङ्करानव लोकनादित्यविरुद्ध कार्यानुपलब्धिः । ना10 स्त्यत्र धूमो वय भावादित्यविरुद्ध कारणानुपलब्धिः ॥
अत्रेति । प्रतिषेध्य शिशपाऽविरुद्ध व्यापकवृक्षानुपलब्ध्या शिंशपाप्रतिषेधः क्रियत इति भावः । कार्यानुपलब्धि दर्शयति नास्त्यत्रेति । अङ्कुरादेरनुपलम्भे सत्यपि कचिद् बीजदर्शनाद्व्यभिचारवारणाय सामर्थ्यवदिति, तथा चाङ्कुरानुपलम्भे बीजमात्राभावो न प्रयोजकः, किन्तु सामर्थ्यवद्बीजाभाव इति न व्यभिचार इति भावः । कारणानुपलब्धिमाह 15 नास्तीति स्पष्टम् ॥
अथ पूर्वचरोत्तरचरसहचरानुपलब्धीर्निदर्शयति—
न भविष्यति मुहूर्त्तान्ते शकटं कृत्तिकोदयानुपलब्धेरित्यविरुद्धपूर्वचरानुपलब्धिः । नोदगाद्भरणिर्मुहूर्त्तात्प्राक्कृत्तिकोदयानुपलम्भादित्यविरुद्धोत्तरचरानुपलब्धिः । नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलम्भा20 दित्यविरुद्ध सहचरानुपलब्धिः ॥
नेति । अत्र प्रतिषेध्यशकटोदयाविरुद्ध पूर्वच र कृत्तिकोदयानुपलम्भरूपोऽयं हेतुः । उत्तरचरानुपलब्धि दर्शयति नोदगादिति, अत्र प्रतिषेध्यभूतभरण्युदयाविरुद्धोत्तरचरकृत्ति
१. ननु केवलभूतलस्य प्रत्यक्षत्वे तद्रूपस्य घटाभावस्यापि प्रत्यक्षतया किमर्थं स स्वभावानुपलब्ध्या साध्यत इति चेद्युक्तमुक्तं तथापि यस्सर्वं सर्वत्र विद्यत इति कुमतवासितान्तःकरणः प्रत्यक्षप्रतिपन्नेऽपि घटाद्यभावे भ्राम्यति सोऽनुपलम्भं निमित्तीकृत्य प्रतिपाद्यत इति ॥ २. यद्यपि कारणानुपलब्धेर्व्यापकानुपलब्धिरूपत्वं, कार्यकारणयोः व्याप्यव्यापकभावात्तथापि कार्यानुपलब्धिसाहचर्येण कारणानुपलब्धेरप्युपस्थितैविशेषज्ञानार्थं पृथङ्निर्देशो बोध्यः ॥