________________
प्रतिषेधहेतवः ]
न्यायप्रकाशसमलङ्कृते
: ३८१ :
मुहूर्त्तान्ते नोदेष्यति शकटं रेवत्युदयादिति प्रतिषेध्यशकटोदय विरुद्वाश्विन्युदय पूर्वचरः । मुहर्त्तात्प्राङ्नोदगाद्भरणिः पुष्योदयादिति प्रतिषेध्यभरण्युदयविरुद्ध पुनर्वसू दयोत्तरचरः । नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्श नादिति प्रतिषेध्य मिथ्याज्ञानविरुद्ध सम्यग्ज्ञानसहचर इति ॥
मुहूर्त्तान्त इति । अत्र हि प्रतिषेध्यशकटोदयस्तद्विरुद्धोऽश्विन्युदयस्तत्पूर्वचरो रेव - 5 त्युदय इति विरुद्धपूर्वचरोऽयं हेतुरित्याह प्रतिषेध्येति । विरुद्धोत्तरच र हेतुमाह मुहूर्त्तादिति । स्पष्टम् । विरुद्धसहचरमाह नास्त्यस्येति, स्पष्टम् । एते हेतवस्साक्षात्प्रतिषेध्यविरुद्धत्वमाश्रित्याभिहिताः परम्परया विरुद्धत्वमाश्रित्य त्वनेकप्रकारा भवन्तीति ते विस्तरभिया नोक्ताः । इति समाप्तो विधिहेतुप्रपञ्चः ॥
अथ प्रतिषेध्याविरुद्धवस्तुनोऽनुपलब्धिरूपस्य प्रतिषेधहेतोर्भेदानाचष्टे—
अविरुद्धनिषेधात्मको हेतुः प्रतिषेधसाधने स्वभावव्यापककार्यकारणपूर्व चरोत्तरचरसहचर भेदेन न सप्तधा ।।
·
अविरुद्धेति । अयं हेतुः प्रतिषेधसाधकः प्रतिषेध्यार्थाविरुद्धपदार्थानुपलम्भरूपत्वात् । स्वभावेति, स्वभावानुपलब्धिव्यापकानुपलब्धिकार्यानुपलब्धिकारणानुपलब्धिपूर्वच रानुपलब्ध्युत्तरचरानुपलब्धिसहचरानुपलब्धिभेदेन सप्तप्रकार इति भावः ॥
प्रतिषेध्यपदार्थप्रतिषेधज्ञापकं स्वभावानुलब्धिरूपं प्रतिषेधहेतुं निदर्शयति
भूतले कुम्भो नास्ति दृश्यत्वे सति तत्स्वभावानुपलम्भादित्यविरुद्धस्वभावानुपलब्धिरूपो निषेधात्मको हेतुः ॥
10
15
भूतल इति । भूतले दृश्यस्य कुम्भस्वभावस्यानुपलम्भात्कुम्भप्रतिषेधस्सिद्ध्य 'भावः । पिशाचादिभिर्व्यभिचारवारणाय तत्स्वरूपे दृश्यत्वविशेषणमुपात्तं, पिशाचादीनां 20 स्वभावो हि न जातुचिद्दृश्यः तस्मात्ते न नास्तित्वेनावगन्तुं शक्या इति भावः । ननु यो यत्र नास्ति स कथं दृश्यो यदि पुनर्दृश्यस्तर्हि कथं तस्य नास्तित्वमिति चेन्न निषेध्यस्य सर्वत्रारोपविषयत्वात् एतद्रूपं ह्यारोप्य निषिध्यते, यद्यत्र कुम्भः स्यात्तर्द्युपलभ्येत नोपलभ्यतेऽतो नास्तीति न चादृश्यस्यापि पिशाचादेर्दृश्यरूपतयाऽऽरोप्य प्रतिषेधः किमिति कर्त्तुं न शक्य इति वाच्यम्, तस्यारोपायोग्यत्वात् तद्योग्यस्यैवारोपात् यस्य सत्त्वे नियमेनोपलम्भस्स 25 एवारोपयोग्यो न पिशाचादिः, सत्त्वेऽपि तस्य नियमेनोपलम्भाभावात्, उपलम्भकारण