________________
: ३८० :
तत्त्वन्यायविभाकरे
[ चतुर्थ किरणे
प्रतिषेध्यस्येति । अत्रोपलम्भपदोपादानान्निषेधमात्रस्यानुपलम्भादेव सिद्धेर्भेदोऽयमनुपलब्धावेवान्तर्भाव्य इति मतमपास्तम्, न चोष्णशीतस्पर्श योरिव सर्वथैकान्ताने कान्तयोर्विरोधस्य प्रथममनुपलब्ध्या प्रतिपद्यमानत्वेन तन्मूलकस्यास्य हेतोरनुपलब्धिरूपत्वमेवयुक्तमिति वाच्यं यन्मूलं यत्तस्य तद्रूपत्वेऽनुमानस्यापि प्रत्यक्षत्वप्रसङ्गात्, पर्वतादौ हि धूमे 5 प्रत्यक्षेणावगते पश्चात्तेन वह्नयनुमानं भवत्यतः प्रत्यक्षमूलत्वादनुमानमपि प्रत्यक्षं स्यादिति ॥
प्रतिषेध्यविरुद्धव्याप्यं विधिहेतुं निदर्शयति
नास्य नवतत्त्वनिश्चयस्तत्संशयादिति प्रतिषेध्यस्य नवतत्त्वनिश्चयस्य विरुद्धेनानिश्चयेन व्याप्यः ॥
नास्येति । नवतत्त्वनिश्चयोऽत्र प्रतिषेध्यस्तद्विरुद्धानिश्चयत्वव्याप्यत्वात्तत्संशयस्य विरु10 व्याप्यत्वमित्याह प्रतिषेध्यस्येति । अनिश्चयो ह्यनध्यवसायादौ संदेहमन्तरेणापि वर्त्तते, संदेहस्तु नानिश्चयमन्तरेण कदापि सम्भवतीत्यनिश्चयसंशययोर्व्याप्यव्यापकभावोऽवसेयः ॥
प्रतिषेध्यविरुद्धकार्यस्य विधिहेतोर्दृष्टान्तमाह
1
नास्त्यत्र शीतं धूमादिति प्रतिषेध्यशीतविरुद्धवह्निकार्यरूपः ॥
नास्त्यत्रेति । अत्र प्रतिषेध्यश्शीतस्पर्शस्तद्विरुद्धो वह्निस्तत्कार्यत्वाद्धूमस्य विरुद्ध15 कार्यत्वमित्यभिप्रायेणाह प्रतिषेध्येति ।
प्रतिषेध्यविरुद्धकारणं लिङ्गं विध्यात्मकमाह -
न देवदत्ते सुखमस्ति हृदयशल्यादिति प्रतिषेध्य सुखविरुद्धदुःखका
रणरूपः ॥
नेति । सुखं ह्यत्र प्रतिषेध्यं तद्विरुद्धं दुःखं तत्कारणश्च हृदयशल्यमिति प्रतिषेध्यविरुद्ध20 कारणं लिङ्गमिदमित्याह प्रतिषेध्येति ||
प्रतिषेध्यविरुद्धपूर्वचरविरुद्धोत्तरचरविरुद्ध सह चरानाह—
१. न च स्वभावविरुद्धोपलब्धिरियं पृथङ् न वाच्या, स्वभावानुपलब्धावन्तर्भावसम्भवात्, निषेधमात्रस्यानुपलम्भगम्यत्वादिति वाच्यम्, अत्रानुपलब्धेरश्रवणात् न चानुपलम्भमूलत्वादनुपलब्धिरूपत्वं प्रथमं सर्वथैकान्तानेकान्तयोश्शीतोष्णस्पर्शयोरिव विरोधं स्वभावानुपलब्ध्या निश्चित्यैवानुमानस्यास्य प्रवृत्तेरिति वाच्यम्, अनुमानस्यापि प्रत्यक्षत्वापत्तेः प्रत्यक्षतो वह्निधूमयोस्साहचर्यं दृष्ट्वा धूमेनानुमानप्रवृत्तेरिति ॥