________________
: ३९६ :
तव न्यायविभाकरे
[ पञ्चमकिरणे
तस्यासाध्यत्वेन तद्विशिष्टधर्मिणः पक्षाभासत्वमेवेति भावः । अस्यैव च सिद्धसाधनं प्रसिद्धसम्बन्ध इत्यपि संज्ञाद्वयमस्तीत्या हेदमेवेति विधेयप्राधान्यान्नपुंसकत्वं प्रतीत साध्यधर्मविशेषणकः पक्षाभास एवेत्यर्थः, अपिशब्दोऽनुक्तस्य प्रसिद्धसम्बन्धस्य समुच्चायकः ॥ -
द्वितीयभेदं निदर्शयति-
5
2
10
द्वितीयो यथा वह्निरनुष्ण इति प्रत्यक्षेण निराकृतसाध्यधर्मविशेकः । अपरिणामी शब्द इति पक्षः परिणामी शब्द इत्यनुमानेन तथा । धर्मोऽन्ते न सुखप्रद इति धर्मोऽन्ते सुखप्रद इत्यागमेन तथा । चैत्रः काण इति पक्षो विद्यमानाक्षिद्वयस्य चैत्रस्य सम्यक्स्मरतस्स्मरणेन तथा । सदृशे वस्तुनि तदेवेदमिति पक्षस्तेन तुल्यमिदमिति प्रत्यभिज्ञया तथा ॥
द्वितीय इति । निराकृतसाध्यधर्मविशेषणक इत्यर्थः, निराकरणस्यात्र प्रत्यक्षानुमानागमस्मरणप्रत्यभिज्ञानतर्क लोकस्ववचनैर्विवक्षितत्वेन तत्क्रमेणैव निदर्शनान्यभिधत्ते यथा वह्निरिति । प्रत्यक्षेणेति, उष्णत्वविषयकत्वाच प्रत्यक्षेणेत्यर्थः । अनुमाननिराकृतसाध्यधर्मविशेषणकमाह । अपरिणामीति । परिणामी शब्द इति, अर्थक्रियाकारित्वं कृतकत्वमुत्पत्तिमत्त्वं वात्र हेतुः । अर्थक्रियाकारित्वादेर्घटे परिणामित्वसत्त्व एवोपलम्भाच्छब्द उप15 लभ्यमानं तत् परिणामित्वं साधयतीति शब्दोऽपरिणामीति पक्ष आभास एवेति भावः, यद्यपि शब्दोऽपरिणामीत्यनुमानस्यानुमानेन बाधनं न सम्भवति सत्प्रतिपक्षापातात्तथापि स्वकीयानुमानस्य बलवत्त्वादयं व्यपदेशो युज्यत एवेति । तथेति निराकृतसाध्यधर्म - विशेषणक इत्यर्थः, एवमग्रेऽपि । आगमनिराकृतसाध्यधर्मविशेषणकमाह धर्म इति, अन्त इति प्रेत्येत्यर्थः । आगमेनेति, तत्र हि धर्मस्याभ्युदयनिः श्रेयसहेतुत्वं तद्विपरीतत्वञ्चाधर्मस्य 20 प्रतिपाद्यत इति भावः । स्मरण निराकृतसाध्यधर्मविशेषणकमाह चैत्र इति, सम्यक्स्मरत इति, बोद्धृभ्यां हि द्वाभ्यामेकदा नेत्रयुगलसमलङ्कृतश्चैत्रोऽवलोकितः पुनः कालान्तरे तन्मध्यादेको नेत्रद्वयं विस्मृत्यापरं प्रत्यभिधत्ते, अयि वयस्य स चैत्रः काण इति, तदाऽपर आचष्टे तवायं पक्षो मामकीनेन सम्यक्स्मरणेन निराकृतः, यतोऽहं चैत्रं तं विद्यमानाक्षिद्वयतया सम्यक्स्मरामीति तदेवं स्मरण निराकृतसाध्यधर्मविशेषणकः पक्षाभास इति भावः । 25 प्रत्यभिज्ञाननिराकृतसाध्यधर्मविशेषणकमाख्याति सदृश इति, प्रत्यभिज्ञयेति, कस्मिंश्चित्सदृशे वस्तुनि कञ्चनाधिकृत्योर्द्धतासामान्यभ्रान्त्या कोऽपि पक्षीकुरुते तदेवेदमिति, तदास्याऽयं पक्षः तिर्यक्कू सामान्यावलम्बिना तेन तुल्यमिदमिति सम्यक्प्रत्यभिज्ञानेन निराक्रियत इति भावः ॥
तर्कनिराकृतसाध्यधर्म विशेषणकादीनाचष्टे