________________
विधिहेतवः ] म्यायप्रकाशसमलते
। ३७७ तदभिन्नस्य साध्यस्यापि निश्चयेन सिद्धसाधनत्वापत्तिहेतोरनिश्चये च न तेन साध्यसिद्धिरज्ञातस्य ज्ञापकत्वासम्भवादिति वाच्यम् , अनेकस्वभावस्य शब्दादिवस्तुनो निश्चितेऽपि प्रयत्नानन्तरीयकत्वादौ स्वभावभूते साधनधर्मे परिणामित्वादिसाध्यधर्मनिश्चयनियमस्याभावात् , निश्चितानिश्चितात्मकत्वञ्चैकस्य वस्तुनश्चित्राकारैकज्ञानवन्न विरुध्यते, तस्मानिश्चितेऽपि हेतुधर्मे साध्यधर्मानिश्चयेन तत्प्रतिपत्त्यर्थमनुमानं सफलमेवेति ॥ साध्याविरुद्धकार्यस्वरूपविधिहेतुं निदर्शयति
पर्वतो वह्निमान् धूमादिति कार्यात्मकः ॥ पर्वत इति । अत्र हि वह्नः कार्य धूमः, साध्याविरुद्धश्च, वह्निसद्भावे एव धूमस्योत्पत्तेः तदभावे च नियमेन धूमस्य निवर्तनात् ननु वन्यभावेऽपि धूमो न निवर्त्तते गोपाल. घटिकादौ वन्यभावेऽपि धूमसद्भावप्रतीतेरिति चेन्न धूमस्य ह्यात्मलाभो वह्नौ सत्येव, तत्कथं 10 गोपालघटिकादावग्न्यभावे धूमसद्भावाशङ्कापि, न च तर्हि पर्वतादाविव तत्रापि धूमोऽग्नि गमयेदिति वाच्यम् , पर्वतादिधूमादस्य वैलक्षण्यात् , वह्निसमानसमयसत्ताको हि पर्वतादिधूमो बहलः पताकायमानस्वरूपोऽनुभूयते, न च गोपालघटिकादिधूमस्तथेति ॥ . साध्याविरुद्धकारणरूपविधिहेतुं दृष्टान्तयति
भविष्यति वृष्टिविलक्षणमेघोपलम्भादिति कारणात्मकः ॥ ... 15 भविष्यतीति । विलक्षणपदेन सातिशयोन्नतत्वादिधर्मोपेतत्वं विवक्षितं तस्यैव वृष्टिकारणत्वात् । ननु कारणं न कार्यस्य गमकं, तेन सहाविनाभावाभावात् , प्रतिबन्धकेन विनाशेन वा कार्याभावात् , अवश्यं कारणानि कार्यवन्तीत्यनियमात् । नवा कारणविशेषस्य गमकत्वं, विशेषस्य निश्चेतुमशक्यत्वात् , प्रचण्डानामपि तडित्वतां वर्षमकृत्वैवोपरमदर्शनादिति
चेन्मैवम् , आस्वाद्यमानफलनिष्ठरसेन तज्जनिकां सामग्रीमनुमाय तया रूपानुमानस्य सौगतेन 20 त्वयाऽप्यभ्युपगमात् । प्राक्तनो हि रूपक्षणः सजातीयं रूपक्षणान्तरलक्षणं कार्य करोतीत्येवं रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारणं लिङ्गतया, प्राक्तनस्य रूपक्षणस्य सजातीयरूपक्षणान्तराव्यभिचारात् । अन्यथा रससमानकालभाविनो रूपस्य प्रतिपत्त्यनुपपत्तेः । कारण
१ नाप्यन्तिमकारणस्य व्याप्तत्वं, तथा सति व्याप्तिस्मरणकाल एव कार्यस्य प्रत्यक्षतयाऽनुमानवैकल्यं स्यादित्यपि बोध्यम् ॥२ तथा च विशिष्ट कारणमेव लिङ्गम . विशिष्टता च समर्थतैव. सा च वैकल्येन प्रतिबन्धेन वा न प्राप्यते यादृशञ्च सामर्थ्य यत्र न प्रतिबद्धं तादृशं कारणं लिङ्गं भवितुमर्हति. तन्निश्चयश्च निपुणानां प्रमातृणां सम्भवत्येव, यत्र कार्यस्य व्यभिचारस्तत्रापि न कारणस्य दोषः किन्तु प्रमातृदोष एव, अन्यथा सकलव्यवहारविलोपप्रसङ्गः स्यादिति भावः ॥
४८