________________
तस्वन्यायविभाकरे
[ चतुर्थकिरणे त्वमपि नानुकूलत्वमानं किन्तु कार्याविनाभावित्वेन निश्चितं विशिष्टमेव, यत्र हि सामर्थ्याप्रतिबन्धः कारणान्तरावैकल्यश्च निश्चीयते तस्यैव हेतुत्वमन्यथा तृप्त्याद्यर्थ भोजनादावप्यप्रवृत्तेनिखिलव्यवहारोच्छेदः प्रसज्येतेति ॥ पूर्वचरं साध्याविरुद्धं विधिहेतुमादर्शयति--
उदेष्यति शकटं कृत्तिकोदयादिति पूर्वचरः॥ उदेष्यतीति । कृत्तिकोदयानन्तरं मुहूर्तान्तेऽवश्य शकटोदयो जायत इति पूर्वचरः कृत्तिकोदयश्शकटोदयं गमयतीति भावः । ननु कृत्तिकोदयस्य शकटोदयपूर्वभावित्वेनायं कारणाविरुद्धविधिहेतुरेव न ततः पृथग्भूत इति चेन्न, पूर्वभावित्वमात्रस्य कारणत्वाप्रयोज
कत्वात् किन्तु कार्यस्वरूपप्राप्तौ हेतूनामेव पूर्ववर्तिनामन्वयव्यतिरेकतः कारणत्वावधारणात् , 10 न ह्यत्र कृत्तिकोदयाच्छकटोदयस्य स्वरूपप्राप्तिरस्ति, अव्यवहिततदुत्तरं तदुदयाभावात्
कालविशेषापेक्षया तस्मात्तदुदयत्वेऽभ्युपगम्यमाने चाश्विन्युदयादीनामपि हेतुताप्रसङ्गात् । ततः कृत्तिकोदयः पूर्वचर एव न कारणमिति तन्निदर्शनं युक्तमेव, तथा च प्रयोगः, यस्मादनन्तरं यन्नास्ति न तस्य तेनोत्पत्तिः, यथा भविष्यच्छङ्खचक्रवर्तिकालेऽसतो रावणादेः,
नास्ति च शकटोदयाद्यनन्तरं कृत्तिकोदयादिकम् । न चै व्यवहितयोः कार्यकारणभावा15 भावे जाग्रत्संवेदनसुप्तोत्थितभाविसंवेदनयोः मरणारिष्ठयोः कार्यकारणभावो न स्यादिति
वाच्यम् , इष्टापत्तेः व्यवहितत्वेन तयोव्यापारपराङ्मुखत्वात् , अन्वयव्यतिरेकाभ्यां व्यापारसापेक्षयोरेव कार्यकारणभावावधारणात् , दृष्टञ्च व्यापारविशिष्टस्यैव घटं प्रति कुलालस्य कारणत्वं, न चात्र व्यापारपरिकल्पनं युक्तमतिप्रसङ्गात् , परम्परया व्यवहितानामन्येषां
कारणत्वप्रसङ्गात् । तस्माच्छरीरनिर्वर्त्तकादृष्टादिकारणकलापादरिष्टकरतलरेखादयो निष्पन्ना 20 भाविनो मरणादेरनुमापका इति प्रतिपत्तव्यम् । जाग्रहशाज्ञानं तु न सुप्तोत्थितज्ञानस्य हेतुः, ज्ञानादभिन्नस्यात्मनः कालत्रयस्थायित्वात्सर्वथा चैतन्यविच्छेदस्य कदाप्यसम्भवादिति ।। साध्याविरुद्धमुत्तरचरं विधिहेतुमाह-.
__ उदिता चित्रा स्वात्युदयादित्युत्तरचरः॥ उदितेति । स्वात्युदयो हि चित्रोदयस्योत्तरचरः ततस्तं गमयति, उत्तरचरस्य तत्का
१. घटं प्रति कालाकाशदिगादीनां कुलालपितृपितामहादीनामपि पूर्ववृत्तितया कारणत्वप्रसङ्गः । अव्यवहितोत्तरत्वप्रवेशे कृत्तिकोदयस्य कारणत्ववर्णनमनुचितं भवेत् मुहूर्तादिकालविशेषनिवेशे स्मृति प्रत्यनुभवस्य कारणत्वं न स्यात् भरण्युदयस्यापि कारणत्वप्राप्तेरिति भावः ।।