________________
तस्वन्यायविभाकरे
[ चतुर्थकिरणे अथ विधिस्वरूपहेतोः प्रकारान् प्रकाशयति
विध्यात्मको हेतुस्साध्याविरुद्धप्रतिषेध्यविरुद्धभेदेन द्विधा, एवं निषेधात्मकोऽपि ॥
विध्यात्मक इति । एवमेव प्रतिषेधरूपहेतावपीत्याहैवमिति । अत्रेदमवसेयम् यथा 5 साध्याविरुद्धो विध्यात्मको हेतुर्विधिसाधकः, प्रतिषेध्यविरुद्धो विधिहेतुः प्रतिषेधसाधकः, तथा प्रतिषेध्येनाविरुद्धो निषेधात्मको हेतुः प्रतिषेधसाधकः, साध्यविरुद्धनिषेधात्मको हेतुर्विधिसाधक इति ॥
तत्र साध्याविरुद्धविधिसाधकविधिस्वरूपहेतून पूर्वोदितषड्विधानुदाहरति
अत्र शब्दः परिणामी प्रयत्नानन्तरीयकत्वादिति व्याप्यो विधि10 हेतुः ॥
तत्रेति । व्याप्याविरुद्धकार्याविरुद्धकारणाविरुद्धपूर्वचराविरुद्धोत्तरचराविरुद्धसहचराविरुद्धभेदेष्वित्यर्थः, अस्य व्याप्यो विधिहेतुरित्यनेन सम्बन्धः । शब्दः परिणामीति प्रतिज्ञायां शब्दो धर्मी साध्यधर्मः परिणामः प्रयत्नानन्तरीयकत्वं हेतुः, प्रयत्नश्चेतनव्या
पारस्तदनन्तरसम्भूतत्वं तदर्थः, यत्रं यत्र प्रयत्नानन्तरीयकत्वं तत्र तत्र परिणामित्वं यथा 15 घटादिरित्युदाहरणम् , प्रयत्नानन्तरीयकश्च शब्द इत्युपनयः, तस्मादयं परिणामीतिनिगमन
मिति साधर्येण पश्चावयवप्रयोगः, वैधम्र्येण तु यो न परिणामी स न प्रयत्नानन्तरीयकः, यथा वन्ध्यासुतः, इत्युदाहरण एव विशेषो नेतरावयवेषु वैलक्षण्यम् । ननु कार्यादिरूपाणां पश्चानामपि हेतूनां स्वस्वसाध्येन व्याप्तत्वादविरोधाच्च व्याप्याविरुद्धस्वरूपत्वमेव, व्याप्यत्वाभावे च तेषां साधकत्वानुपपत्तेस्तथा चानेनैव सर्वेषां तेषां गतार्थतया पृथग्विभागो 20 नोचित इति चेन्न साध्यनिरूपितव्याप्तिमत्त्वमात्रेण व्याप्यस्यात्राविवक्षणात् कथञ्चित्साध्येन
तादात्म्यपरिणाममापन्नस्य कार्यादिविलक्षणस्य हेतुस्वरूपस्य विवक्षणात् । अस्यैव च स्वभावोपलब्धिरिति नामान्तरम् । प्रयत्नानन्तरीयकत्वं हि साध्यधर्मस्य परिणतिमत्त्वादेः कथञ्चिदपृथग्भूतं स्वरूपम् । न चैवं स्वभावभूतधर्मस्य व्याप्यस्य हेतुत्वे हेतोनिश्चये
। १. ननु निषेधात्मकहेतोः कथं द्विविधत्वस्यातिदेशः न तावत्साध्याविरुद्धत्वप्रतिषेध्यविरुद्धत्वाभ्यां, अग्रिमोदाहरणानुपपत्तेरिति पर्यनुयोगे त्वाहात्रेदमिति ॥ २. पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणतिशून्य. त्वरूपे सर्वथा नित्यत्वे शब्दस्य प्रयत्नानन्तरीयकत्वानुपपत्ते: प्रयत्नानन्तरीयकत्वं परिणतिमत्त्वेन व्याप्त विज्ञेयम् ॥