________________
अत्यन्ताभावः ] __ न्यायप्रकाशसमलङ्कते
: ३७५ कालत्रयेऽपीति । भूतभविष्यद्वर्तमानरूपकालत्रयापेक्षयापि ययोस्तादात्म्यपरिणतिनिवृत्तिरेकत्वपरिणामो न भवति सोऽत्यन्ताभाव इत्यर्थः । दृष्टान्तमाह यथेति । अस्तित्ववन्नास्तित्वस्यापि वस्तुपर्यायत्वेन पर्यायपर्यायिणोश्च कथञ्चिदभेदान्न सर्वथाऽभावोऽधिकरणभिन्न इत्याह सोऽयं प्रतिषेध इति । सर्वथा तस्य भेदे निःस्वभावत्वमभेदे च तद्वृत्तित्वेनाप्रतीतिः स्यात् सर्वथा अभावस्य भावभिन्नत्वे च तस्य प्रमाणावेद्यत्वापत्तेः, प्रमाणस्य भावविषयत्वात्। 5 न च प्रत्यक्षमभावविषयं भवत्येव तस्येन्द्रियैस्संयुक्तविशेषणसम्बन्धसद्भावात् घटाभावविशिष्टं भूतलं गृहामीति प्रत्ययादिति वाच्यम्, तत्रापि प्रत्यक्षस्य भूतलादिभावमात्रविषयत्वात् तस्याभावविषयकत्वे क्रमतोऽनन्तपररूपाभावप्रतिपत्तावुपक्षीणशक्तिकत्वेन भावदर्शनस्यानवसरत्वप्राप्तेः । प्रत्यासत्यविशेषात् अभावग्राहकसामग्र्यविच्छेदाच्च । न चाभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वात्तस्य च कादाचित्कत्वेनाभावग्रहस्यापि कादाचित्कत्वात् प्रतियोगि- 10 ज्ञानाभावकालेऽभावज्ञानान्तर्गतभावपदार्थग्रहस्यावसरो लभ्यत इति वाच्यम् , प्रत्यक्षस्य प्रतियोग्यादिस्मरणानपेक्षत्वात् , तस्य च स्मृत्यपेक्षायामपूर्वार्थसाक्षात्कारित्वविरोधात् । न च क्वचिद्भावप्रत्यक्षं स्मरणनिरपेक्षं योगिप्रत्यक्षवत् । क्वचित्स्मरणापेक्षं सुखादिसाधनार्थव्यवसायवत् । तथा कचिदभावप्रत्यक्षं स्मरणनिरपेक्षं योगिनोऽभावप्रत्यक्षवत् कचित्प्रतिषे. ध्यस्मरणापेक्षं तथैव प्रतीते रिति वाच्यम् , स्मरणापेक्षस्य विकल्पज्ञानस्य प्रत्यक्षत्वविरोधादनु- 15 मानादिवत् । तस्य स्मरणापेक्षत्वेऽनवस्थाप्रसंगाच्च । ततो नाभावः प्रत्यक्षविषयः । सकलशक्तिविरहरूपस्य निरुपाख्यस्याधिकरणात्सर्वथाभिन्नस्याभावस्य स्वभावकार्यादेरभावान्नानुमानिकत्वं, सस्वभावत्वे भावत्वप्रसङ्गात् । अनुपलब्ध्यापि न तद्व्यवस्था तया तस्यासिद्धताया एव व्यवस्थापनात्, न च भावानामनुपलब्ध्या तत्प्रमितिरिति वाच्यम् , ततो भावान्तरस्वभावस्यैवाभावस्यावभासनादिति ॥
20
१. सर्वथाऽभावस्याभेदे हि भावैकान्तनिश्चयस्स्यात् , अस्तित्वमेवेति निश्चयात् तथाऽभ्युपगम्यमाने सर्वेषामेवाभावानामपह्नवस्स्यात् तथा च सति सर्वेषां सर्वात्मकत्वं अनादित्वमनन्तत्वं च स्यादित्यपि बोध्यम् ॥ २. अभावग्राहकसामग्र्यविच्छेदादनन्तघटपटाद्यभावग्रहणे भावग्रहो न भवेदेवेति भावः ॥ ३. ननु केवलाभावप्रत्यक्षाभ्युपगमे भवेदयं दोषः, स एव च नास्ति, अभावज्ञाने प्रतियोगिज्ञानस्यापि हेतुत्वात्तस्य च कादाचित्कत्वादित्याशंकते न चेति ॥ ४. स्मृतेः पूर्वानुभवस्य तस्याप्यपरस्मरणस्य तस्याप्यपरपूर्वानुभवस्यापेक्षणादनवस्था । सुदूरमपि गत्वा कस्यचिदनुभवस्य स्मृतिनिरपेक्षत्वे प्रकृतानुभवस्यापि स्मृतिसापेक्षत्वकल्पनावैयर्थ्यादिति भावः ॥ ५. न च स्मृतित्वेन स्मृतिजन्यत्वस्य प्रत्यक्षाभावव्याप्यत्वेऽपि विशेषणज्ञानत्वेन तजन्यताया अतथात्वान्नायं दोष इति वाच्य विशिष्टज्ञानत्वावच्छिन्नं प्रति विशिष्ट प्रत्यक्षत्वावच्छिन्नं प्रति वा विशेषणज्ञानहेतुत्वे मानाभावात् , तद्विशेषणेन्द्रियसन्निकर्षतदसंसर्गाग्रहादिनैव तद्विशिष्टप्रत्यक्षोत्पत्तेः । सुरभि चन्दनमित्यादि ज्ञानं तु प्रत्यभिज्ञानमेवेति ॥