________________
:३७४ : तत्वन्यायविभाकरे
[ चतुर्थकिरणे नस्य प्रध्वंसः, न चैवं तदुत्तरक्षणेषु प्रध्वंसस्याभावेन घटादेः पुनरुज्जीवनं स्यादिति वाच्यम् , कारणस्य कार्योपमर्दनात्मकत्वाभावात् उपादानोपमर्दनस्यैव कार्योत्पत्त्यात्मकत्वात् प्रागभावप्रध्वंसयोरुपादानोपादेयरूपतोपगमेन तदुपमर्दनेनैव प्रध्वंसस्य कार्यात्मन आत्मलाभात् । प्रागभावे कारणात्मनि पूर्वक्षणवर्तिनि सति हि प्रध्वंसस्य कार्यात्मनस्स्वरूपलाभोपपत्तिरिति । 5 व्यवहारनयादेशाच्च घटोत्तरकालवर्तिघटाकारविकलं. मृदादिद्रव्यं घटप्रध्वंसः । स
चानन्तः । तेन घटात्पूर्वकालवर्ति मृदादिद्रव्यं घटस्य प्रागभाव एव नतु प्रध्वंसः, तथा घटाकारमपि तत्तस्य प्रध्वंसो मा भूदिति घटाकारविकलमिति विशेषणम् । प्रमाणार्पणया तु प्रध्वंसो द्रव्यपर्यायात्मैकानेकस्वभावश्चेति ॥
अथान्योऽन्याभावमाख्याति10 स्वरूपान्तरात्स्वरूपव्यवच्छेदोऽन्योन्याभावः, यथा पटस्वभावाद्धटस्वभावस्य ॥
स्वरूपान्तरादिति । स्वभावान्तरात्स्वभावव्यवच्छेदोऽन्यापोहापरनामकोऽन्योऽन्याभावः । दृष्टान्तमाह यथेति व्यवच्छेद इति शेषः । न चेदं लक्षणं प्रागभावप्रध्वंसाभाव
योरपि गतमिति वाच्यम् , कार्यात्पूर्वोत्तरपरिणामयोस्स्वभावान्तरत्वेऽपि कार्यस्य पूर्वोत्तर15 परिणामरूपव्यावृत्तेविलक्षणत्वात् यदभावे हि नियमतः कार्यस्योत्पत्तिस्स प्रागभावः, यद्भावे
च कार्यस्य नियता विपत्तिस्स प्रध्वंसाभावः, न चान्योऽन्याभावस्याभावे भावे च कार्यस्योत्पत्तिर्विपत्तिर्वा, जलस्याभावेऽप्यनलस्यानुत्पत्तेः क्वचित्तद्भावे च तस्याऽविपत्तेः। एतस्य लक्षणस्य नात्यन्ताभावेऽतिव्याप्तिः, अस्य कालत्रयापेक्षत्वात् । अन्योऽन्याभावस्तु न कालत्र
यापेक्षो घटभिन्नस्यापि कदाचित् पुद्गलपरिणामानामनियमेन पटस्य घटत्वपरिणामसम्भवात् , 20 तथा परिणामकारणसम्पत्तौ विरोधाभावात् । न चैवं चेतनाचेतनयोः कदाचित्तादात्म्यपरिणामः, तत्त्वविरोधादिति भावः ॥
अत्यन्ताभावं लक्षयति
कालत्रयेऽपि तादात्म्यपरिणतिनिवृत्तिरत्यन्ताभावः यथा जीवाजीवयोः । सोऽयं प्रतिषेधः कथञ्चिदधिकरणाद्भिन्नाभिन्नः ॥
१ कारणस्य घटस्य कार्य तद्धंसस्तस्योपमर्दनात्मकत्वाभावान्नाशानात्मकत्वादित्यर्थः, घटो हि कारणं तेन घटध्वंसनाशो न घटात्मेति भावः ॥ २. घटप्रध्वंसव्यवहारविषयत्वं न घटोत्तरकालवर्तिघटाकारविकलमृद्दव्यत्वेन, ध्वंसघटितोत्तरत्वगर्मितत्वेनान्योऽन्याश्रयात् किन्तु स्वोत्तरकालवृत्तित्वस्वाकारविकलत्वस्वद्रव्यत्वेतत्रितयसम्बन्धेन घटविशिष्टत्वेन ।।