________________
प्रध्वंसाभावः ]
न्यायप्रकाशसमलङ्कृते ।
: ३७३
प्रमाणाभावात् । न च स्वोत्पत्तेः पूर्वं नासीद्धट इति ज्ञानमभावविषयकं भावप्रत्ययविलक्षणत्वाद्यस्तु भावविषयो नासौ भावप्रत्ययविलक्षणो यथा घट इत्यादिप्रत्यय इत्यनुमानं प्रागभावग्राहकमिति वाच्यम्, प्रागभावादौ नास्ति प्रध्वंसाभावादिरिति प्रत्ययेन व्येमि - चारात् । न च सोऽपि प्रत्ययोऽभावविषय इति न व्यभिचार इति वाच्यम्, अभावानवस्थाप्रसङ्गात् । अत एव प्रागभावस्य सर्वदा भावविशेषणत्वमसिद्धं प्रध्वंसाभावादौ 5 न प्रागभाव इत्यादौ प्रागभावस्याभावेऽपि विशेषणत्वात् । तस्मादृजुसूत्रनयार्पणात् कार्यस्याव्यवहितपूर्वोपादानपरिणाम एव प्रागभावः । न च तत्पूर्वानादिपरिणामसन्ततौ कार्यसद्भावप्रसङ्ग इति वाच्यम्, यतो घटस्य प्रागभावः कुसूलं तस्य कोशस्तस्य स्थासतस्यापि मृत्पिण्ड एवं परमाणौ तत्परम्पराया विश्रान्तिस्तथा च तत्परम्परानाधारघटध्वंसपरम्परानाधारकालत्वस्यैव घटव्याप्यत्वेन नाघटकाले घटवत्त्वप्रसङ्ग इति । व्यवहार- 10 नयार्पणात्तु मृदादिद्रव्यं घटादेः प्रागभावः स चानादिः । न च घटादेः प्रागभावाभावस्वभावत्वं न सम्भवति मृदादिद्रव्यस्याभावासम्भवादिति वाच्यम्, घटादिरहितस्य पूर्वकालविशिष्टस्य मृदादिद्रव्यस्यैव घटादिप्रागभावरूपतया तस्य च कार्योत्पत्तौ विनाशसिद्धेः, नहि कार्यरहितत्वस्य विनाशमन्तरेण कार्यसहिततयोत्पत्तिस्सम्भवति, प्रमाणार्पणात्तु द्रव्यपर्यायात्मा प्रागभाव इति ॥
प्रध्वंसाभावं निरूपयति
15
यदुत्पत्तिनिबन्धनं कार्यविघटनं स प्रध्वंसाभावः । यथा घटं प्रति कपालकदम्बकम् ॥
यदुत्पत्तीति । यस्य भावे नियमेन कार्यस्य विघटनं भवति स प्रध्वंसाभाव इत्यर्थः, दृष्टान्तमाह यथेति कपालकदम्बकोत्पत्तौ सत्यां ह्यवश्यं घटस्य विपद्यमानता भवत्यतः 20 कपालकदम्बकमेव तत्प्रध्वंसाभाव इति भावः । अत्रापि ऋजुसूत्रार्पणादुपादेयक्षण एवोपादा
१. अभावाधिकरणकाभावप्रतियोगिका भावस्याधिकरणात्मकत्वेन प्रागभावभिन्नप्रध्वंसाभावाभावाविषयकत्वेन हेतुत्वेऽपि साध्याभावाद्व्यभिचार इति भावः ॥ २. कालविशेषावच्छिन्नस्वरूपसम्बन्धेन मृद्दव्यं घटप्रागभावव्यवहारनिमित्तं पूर्वकालात्मकस्य कालविशेषस्य संसर्गघटितत्वेन तस्य च प्रागनुपस्थितस्य संसर्गवे कस्याप्यविवादादत्र नान्योऽन्याश्रयः । न चैवं कालविशेषघटितसम्बन्धेन मृदादिद्रव्यमेव घटादिव्यवहारविषयोऽस्तु किमतिरिक्तेन घटादिद्रव्येणेति वाच्यम्, मृदादिद्रव्याद्वटादिद्रव्यस्य पृथगनुभूयमानत्वेन तन्मात्रत्वाकल्पनात् प्रागभावादेस्तु पृथगनुभूयमानत्वाभावेनाधारमात्रस्वरूपत्वकल्पनात्, घटस्वरूपे मृदादिद्रव्ये आधारभिन्नत्वमुद्भूतं, अभावपर्याये त्वनुद्भूतमिति भावः ॥