________________
:३७२: तत्त्वन्यायविभाकरे
[ चतुर्थकिरणे प्रत्ययजनकत्वरूपसद्भावान्नाभावस्य निःस्वभावत्वमिति वाच्यम् , तथा सति तस्य भावस्वभावत्वसिद्धेः, प्रत्ययाभिधानविषयस्यार्थक्रियाकारिणः पदार्थस्य भावस्वभावत्वात् , नास्तित्वस्य च वस्तुधर्मत्वाद्धर्मस्य कथञ्चिद्धर्मिभिन्नत्वेन कथञ्चिद्भेदोऽपि, तत्राभेदाश्रयणे
भावत्वेन भेदाश्रयणे च तद्वृत्तित्वेनाभावस्य प्रतीतिः, एतेन भूतलस्य घटाभावत्वे 5 भूतले घटाभाव इति प्रतीतिर्न स्यात् स्याच्च भूतले भूतलमिति धीरित्यपास्तम् । अभेदेऽपि घटाभावत्वेनाधेयताया भूतलत्वेन चाधारताया यथाप्रतीति स्वीकारादिति भावः। अथ प्रागभावं लक्षयति यन्निवृत्तावेवेति, विलक्षणपरिणामविशिष्टस्य मृत्पिण्डस्य तेन रूपेण विनाशे हि घटरूपतया मृत्पिण्डः परिणमत इति घटरूपतयोत्पत्तेः प्रागव्यवहितप
रिणामविशिष्टं मृद्रव्यमेव तत्प्रागभाव उच्यते न तु मृत्पिण्डात्सर्वथाऽर्थान्तरमिति भावः, 10 इदमेव दृष्टान्तद्वारा प्रदर्शयति यथेति, घटस्य प्रागभावश्च तदव्यवहितपूर्वक्षणपरिणाम
इत्येके, तेषां तत्पूर्वानादिपरिणामसन्ततौ कार्यसद्भावप्रसङ्गः, कार्यध्वंसतत्प्रागभावाना धारकालस्य कार्यवत्त्वव्याप्यत्वात् । तत्पूर्वानादिपरिणामसन्ततौ कार्यभेदसत्त्वान्न दोष इति चेन्नाव्यवहितकार्यपूर्वपरिणामेऽपि कार्यभेदसत्त्वेन तेनैव तदानीं कार्याभावसिद्धेः प्रागभाव
स्वीकारनिरर्थकतापत्तेः, न च कार्यस्य प्रागभावाभावस्वभावत्वसिद्ध्यर्थं तदभ्युपगम इति15 वाच्यम् , कार्यपूर्वोत्तरनिखिलपरिणामेषु कार्यानन्तरपूर्वपर्यायभिन्नेषु कार्यस्वभावताप्रसङ्गात् ।
न च न कार्यप्रागभावाभावत्वं कार्यस्वभावत्वव्याप्यं किन्तु कार्यप्रागभावध्वंसत्वमेव, सोऽपि ध्वंसोऽव्यवहितोत्तरक्षण एव वर्त्तते, तदुत्तरक्षणेषु घटादिव्यवहारश्च सदृशकार्योत्पत्तिदोषादिति वाच्यम् । एतस्य सौगतानामेव शोभनत्वादस्माभिः प्रागभावस्यानादि
त्वोपगमात् । प्रागभावध्वंसस्य द्वितीयादिक्षणेष्वसत्त्वे प्रागभावोन्मजनप्रसङ्गेन प्राग20 भावक्षण इव तत्रापि कार्यस्यासद्भावप्रसङ्गात्तत्र दोषाभ्युपगमस्य चाप्रामाणिकत्वात् । तस्माद्
द्रव्यपर्यायात्मा प्रागभावः स च स्यात्सादिस्स्यादनादिरिति सिद्धान्तात् । न च द्रव्यरूपतयाऽनादित्वेऽनन्तत्वप्रसक्तेस्सर्वदा कार्यानुत्पत्तिः स्यात् पर्यायरूपतया च सादित्वे प्रागभावात्पूर्वमपि पश्चादिव कार्योत्पत्तिः स्यादित्युभयत्र दोषात् भावस्वभावो न प्रागभावस्तस्य भावविलक्षणत्वेन सर्वदा भावविशेषणत्वादिति वाच्यम् , सर्वथा भावविलक्षणाभावग्राहक
१. इदानीं घट इत्यादिप्रतीत्या तत्तत्क्षण एव तदभिन्नकार्याणां बौद्धमते तादात्म्येन कालवृत्तित्वोपगमात् कार्यभिन्नक्षणे कार्यत्वस्यापादयितुमशक्यत्वादिति भावः ॥ २. ते हि पर्यायार्थमात्रादेशं स्वीकुर्वन्तीति तेषामेवेदं शोभनं उभयनयवादिनामस्माकन्तु तत्सिद्धान्तविरुद्धमिति भावः ॥ ३. ननु भवदुक्तेनैवं फलति पूर्वपर्यायेषु मृद्रव्ये च प्रागभावत्वं व्यासज्यवृत्तीति तन्न सम्यक् प्रत्येकावृत्तेस्समुदायावृत्तित्वात् , प्रत्येकवृत्तित्वे च दोषादित्याशयेनाशंकते न चेति ॥