________________
विधिहेतुः ]
न्यायप्रकाशसमलङ्कृते
: ३७१ :
मिति । तथा च विधिसाधको विधिरूपः, निषेधसाधको विधिरूपः, विधिसाधकः प्रतिषेधरूपः, निषेधसाधकः प्रतिषेधरूपश्चेति हेतुश्चतुर्विधः फलितः । एतेनोपलम्भस्वरूपस्य हेतोर्विधिसाधकत्वमेवानुपलम्भस्वरूपस्य हेतोः प्रतिषेधसाधकत्वमेवेति केषाञ्चिन्नियमो निरस्तः । साध्यसाधनयोर्गम्यगमकभावे व्याप्तेरेव प्रयोजकतया व्याप्तिसत्त्वेन विधिसाध्ये उपलम्भरूप हेतोर्गमकत्वस्येव तत्सत्त्वेऽनुपलम्भहेतोरपि तत्साधने गमकत्वस्य दुर्निवार- 5 तयैकशेषस्यानुचितत्वादिति ॥
तत्र विधिसाधकं विध्यात्मकं हेतुं षोढा विभजते
तत्र विधिसाधको विधिरूपो हेतुर्व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात् षोढा । विधिस्तु सदसदात्मके पदार्थे सदंशः, असदंशश्च प्रतिषेधः ॥
तत्रेति, व्याप्यं कार्यं कारणं पूर्वचरमुत्तरचरं सहचरं चेति हेतुभूतानि वस्तूनि षडिधानि विधिभूतसाध्यसाधकानीत्यर्थः । विधिप्रतिषेधशब्दार्थं वक्ति विधिस्त्विति, पदार्थो हि सदसदात्मकः, तत्र योऽय सदंशस्स एव विधिरुच्यते, अभावापरपर्यायस्त्वसंदेशः प्रतिषेध उच्यत इति भावः ॥
10
प्रसङ्गादभावस्य सर्वथा भावस्वरूपातिरिक्तत्वं दूषयितुं प्रतिषेधं विभज्य तत्स्वरूपं 15 वक्तुमुपक्रमते —
प्रतिषेधश्चतुर्धा प्रागभावप्रध्वंसाभावान्योऽन्याभावात्यन्ताभावभेदात् । यन्निवृत्तावेव कार्याविर्भावः स प्रागभावः, यथा घटं प्रति मृत्पिण्डः ॥
प्रतिषेध इति । अत्रायम्भावः, पदार्थानामस्तित्वेनैवोपगमे सर्वेषामभावानामपह्नवेन सर्वस्य सर्वात्मकत्वप्रसङ्गः । प्रागभावानङ्गीकारे निर्विकारत्वं द्रव्यस्य स्यात् तथा च घंट- 20 पादीनामभाव एव स्यात् । प्रध्वंसाभावानभ्युपगते कटककुण्डलादीनामनन्तत्वप्रसङ्गः अन्योऽन्याभावापलापे जीवस्य जीवात्मकत्वेऽजीवस्य जीवात्मके सर्वात्मकत्वप्रसङ्गेन तयोर्लक्षणभेदो न स्यात् । अत्यन्ताभावानभ्युपगमे च जीवे अजीवत्वात्यन्ताभावानभ्युपगमात् अजीवत्वस्याजीवे च जीवत्वाभावानभ्युपगमाज्जीवत्वस्य प्राप्तेः । तस्माद्वस्तुनो यथाऽस्तीति प्रत्ययविषयमस्तित्वं पर्यायस्तथा नास्तीति प्रतीतिविषयं नास्तित्वमपि पर्यायः, 25 तच्च नास्तित्वं न सर्वथा वस्तुनोऽर्थान्तरम्, निःस्वभावत्वप्रसङ्गात् न च नास्तीति