________________
: तस्वन्यायविभाकरे
[ चतुर्थकिरण वक्तुं न शक्नुवन्ति, प्रोक्तक्रमेणासिद्धिविरोधादीनां सम्भवात् , प्रमाणेनात्र धर्म्यसिद्धेः । तथात्वे च परं प्रत्याश्रयासिद्ध्यायुद्भावनं व्यर्थमेव स्यात् येन हि यो धर्मितयोपात्तस्तत्रैव दोषः प्रदर्शनीयस्तथा च तत्र दोषमुद्भावयता भवताऽवश्यं विकल्पेन धर्मिप्रसिद्धिरभ्युपे
यैवान्यथा तूष्णीम्भावापत्तिः, एवञ्चास्ति सर्वज्ञ इत्यादिमानसप्रत्यक्षे भावरूपस्यैव धर्मिणः 5 प्रतिपन्नत्वान्न कोऽपि दोषः, न च तत्सिद्धौ तत्सत्त्वस्यापि प्रतिपन्नत्वेन व्यर्थमनुमानमिति
वाच्यम् , तदभ्युपेतमपि वैयात्याद्यो न प्रतिपद्यते तं प्रत्यनुमानस्य साफल्यात्, न च षष्ठभूतादेः कथं धर्मित्वं, मानसप्रत्यक्षेण तत्सत्त्वस्यापि प्रतिपन्नतया नास्तित्वसाधनस्य बाधितत्वादिति वाच्यम् , तदानीं बाधकप्रत्ययानुदयेन सत्त्वे सम्भावितेऽपि पश्चात्तत्सत्ताया निषेधनात्, एवमेव गगनकुसुमादीनामपि विकल्पकाले सत्त्वेन सम्भावितानामपि पश्चाद्वाध10 कप्रत्ययेन तन्निरासात्तादृशमानसज्ञानस्य मानसप्रत्यक्षाभासत्वमवसेयमिति ॥ अथ प्रमा
णाद्धर्मिप्रसिद्धेर्निदर्शनमादर्शयति पर्वत इति, अत्र प्रत्यक्षेण पर्वतस्य प्रसिद्धिरिति भावः । एतेनानुमानानुमेयव्यवहारस्सर्व एव बुद्धावेव किमपि धर्मित्वेन किमपि च धर्मत्वेन प्रकल्प्य प्रवर्तते, नतु बाह्यं सदसत्त्वमपेक्ष्येति मतमपास्तम्, अन्तर्बहिर्वाऽनासादिताऽऽलम्बनाया
बद्धधर्मधर्मित्वेन कस्यापि व्यवस्थापनाऽसामात । तस्मात्प्रमाणेन व्यवस्थापितः पर्वता. 15 दिरेव विषयभावं भजन धर्मित्वादिकं प्रतिपद्यत इति । उभयसिद्धं निदर्शयति शब्द इति,
अत्र हि शब्दमात्रस्य धर्मित्वमिष्टमन्यथा यस्मिन् कस्मिन्नेव शब्दे परिणामित्वस्य सिद्ध्यापत्तेः, तथा च सर्वेषां शब्दानां श्रवणेन प्रत्यक्षासम्भवेन केषाश्चित्प्रत्यक्षतः केषाञ्चिच्च विकल्पतः प्रसिद्धिर्भवतीति भावः । ननु पर्वतो वह्निमानित्यत्रापि प्रत्यक्षसिद्धत्वं पर्वतस्य कथं,
दृश्यमानभागेऽग्निमत्त्वसाधने प्रत्यक्षबाधा, तत्र वह्रथुपलब्धौ वा साधनवैयर्थ्यमदृश्यमा20 नभागे तु साधने कुतो धर्मिणः प्रत्यक्षसिद्धत्वमिति चेन्मैवम् , अवयविद्रव्यापेक्षया पर्वता
देस्सांव्यवहारिकप्रत्यक्षप्रसिद्धताभिधानात् । अतिसूक्ष्मेक्षिकया पर्यालोचने तु न किञ्चित्प्रत्यक्षं, अस्मदादिप्रत्यक्षस्याशेषविशेषतोऽर्थसाक्षात्कारे सामर्थ्यविरहात् केवलिप्रत्यक्षस्यैव तत्र सामर्थ्यादिति ॥
तदेवं धर्मिसाध्यसाधनरूपमनुमानस्य प्रधानभूतमङ्गत्रयं निरूप्य सम्प्रति हेतुं विभजते
हेतुर्द्विविधो विधिस्वरूपः प्रतिषेधस्वरूपश्चेति । तथा विधिस्वरूपो __ हेतुर्द्विधा, विधिसाधको निषेधसाधकश्चेति, एवं प्रतिषेधस्वरूपो हेतुरपि ॥
.. हेतुरिति । विधिस्वरूप उपलम्भस्वरूपः, प्रतिषेधस्वरूपोऽनुपलम्भस्वरूपः । विधिस्वरूपस्यापि द्वैविध्यमाह तथेति, ईदृशमेव प्रकारभेदं प्रतिषेधस्वरूपहेतावप्यतिदिशति एव
25