________________
अमिप्रसिद्धिः ]
न्यायप्रकाशसमलते - व्याप्तीति । वतयादिधर्म एवेति, एवशब्देन तद्विशिष्टधर्मिणो व्यवच्छेदः, तत्र व्यातेरसम्भवात् , नहि धूमदर्शनात् सर्वत्र पर्वतो वह्निमानिति व्याप्तिश्शक्या विधातुं प्रत्यक्षादिप्रमाणविरोधात् । साध्य इति साधयितुं योग्य इत्यर्थः । इत्थश्चानुमानस्य त्रीण्यङ्गानि, धर्मी साध्यं साधनञ्च, तत्र साधनं गमकत्वेनाङ्गम् , साध्यन्तु गम्यत्वेन, धर्मी पुनः साध्यधर्माधारत्वेन, आधारविशेषनिष्ठतया साध्यसिद्धेरनुमानप्रयोजनत्वात् । अथवा पक्षो हेतु- 5 रित्यनुमानाङ्गं द्वयं, साध्यधर्मविशिष्टधर्मिणः पक्षत्वात् , इदश्च धर्मधर्मिणोरभेदापेक्षया, पूर्वन्तु भेदापेक्षया विज्ञेयम् ॥ ____ननु सिषाधयिषितस्यैव धर्मिणस्साध्यत्वोक्त्या प्रसिद्धस्यैव धर्मित्वं लब्धं सामान्यतो विज्ञातस्यैव किश्चिद्धर्मविशिष्टत्वेन सिषाधयिषितत्वात् तथा च तत्प्रसिद्धिः कथन्तरां स्यादिति पर्यनुयोगे प्राह- . ..
... 10 ___ धर्मिणश्च प्रसिद्धिः प्रमाणाद्विकल्पाद्भयतो वा ज्ञेया। यथाऽस्ति सर्वज्ञ इत्यत्र धर्मिणस्सर्वज्ञस्य विकल्पासिद्धिः । पर्वतो वह्निमानित्यत्र पर्वतस्य प्रत्यक्षप्रमाणात, शब्दः परिणामीत्यादौ कालत्रयवर्तिशब्दधर्मिण उभयस्मात् ॥
धर्मिणश्चेति । प्रमाणादिति निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमादित्यर्थः, विकल्पादिति, 15 अनिश्चितप्रामाण्याप्रामाण्यकप्रत्ययादित्यर्थः, उभयत इति, निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमादनिश्चितप्रामाण्याप्रामाण्यकप्रत्ययान्चेत्यर्थः । नन्वस्तु निश्चितप्रामाण्यकप्रत्यक्षादिभ्यो धर्मिप्रसिद्धिः, प्रामाण्येनाप्रामाण्येन वाऽनिर्णीतया प्रतीत्या कथं धर्मिप्रसिद्धिः; तस्याः प्रमाणत्वाभावात् , प्रमाणात्मिकयैव च प्रतीत्या वस्तुसिद्धेः । तस्याश्च प्रमाणत्वे प्रमाणादित्यनेनैव गतार्थतया विकल्पादिति व्यर्थमेव भवेत् । अप्रमाणत्वे तु न ततो धर्मिसिद्धिः, 20 किश्च विकल्पसिद्ध धर्मिणि सत्त्वमसत्त्वं वा प्रमाणबलेन साधनीयं यथाऽस्ति सर्वज्ञो नास्ति षष्ठं भूतमित्यादौ । तच्च न सम्भवति, धर्मिणो वस्तुतोऽसत्त्वेन भाववृत्तिधर्मस्य हेतुत्वेऽसिद्धिप्रसरात् , भाववृत्तिधर्मस्य तत्र सत्त्वे च धर्मिणोऽपि भावत्वापत्त्यां नास्तित्वसाधनमसङ्गतं स्यात् । अभाववृत्तिधर्मस्य हेतुत्वे त्वस्तित्वसाधनस्य विरोधात् , उभयवृत्तिधर्मस्य हेतुत्वे व्यभिचारादित्यनुयोगे प्रबले जाते प्रमाणाद्धर्मिप्रसिद्धरुदाहरणप्रदर्शनं 25 विहाय प्रथमत एव विकल्पप्रसिद्धधर्मिणमुदाहरति यथेति, अत्रायम्भावः, ये विकल्पेन धर्मिप्रसिद्धिं नाभ्युपगच्छन्ति ते विकल्पसिद्धो धर्मी न भवति तस्याप्रमाणत्वादित्यपि