SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ : ३८ : तरवण्यायविभाकरे [ चतुर्थकिरणे तः । अस्यैव च पक्ष इति नामान्तरम् । साध्यविशिष्टत्वेन धर्मिण एव सिषाधयिषितत्वात् इदञ्चानुमानजन्यप्रतिपत्तिकालापेक्षया ॥ " प्रमाणेति । प्रमाणपदेनात्र प्रमाणत्वावच्छिन्नं ग्राह्यं तथा च प्रमाणत्वावच्छिन्नेन येन केनचिदप्यबाधितमित्यर्थः, एतेन बाधितस्य साध्यत्वव्यावृत्तिः कृता भवति, यथा शब्दोऽ5 श्रावण इति प्रत्यक्ष बाधितं साध्यम्, नित्यश्शब्द इति शब्दस्यानित्यत्वसाधकेनानुमानेन बाधितम्, धर्मः प्रेत्यासुखप्रद इति धर्मः प्रेत्यसुखप्रद इत्यागमेन बाधितम्, माता मे ध्ये स्ववचनबाधितं, नरशिरःकपालं शुचीति लोकबाधितम् एवंरूपाणां व्यावर्त्तनाय प्रमाणाबाधितमिति पदम् । स्थाणुर्वा पुरुषो वेति संशयविषयस्य, शुक्तिकाशकलं रजतमिति विपयस विषयस्य, यथावदनिश्चितस्वरूपस्य गृहीतस्यागृहीतस्य वार्थस्य साध्यताप्रतिपत्त्यर्थम10 निर्णीतपदम्, एतद्वैपरीत्ये हि साधनं विफलमेव भवेदिति । अनिष्टस्य सर्वथाऽनित्यत्वादेरसाध्यत्वप्रतिपत्तये सिषाधयिषितमित्युक्तम् | साधनेच्छाविषयीभूतमित्यर्थः, साधनं स्वाभिप्रेतार्थस्य, इच्छा वक्तुस्तथा च स्वाभिप्रेतार्थसाधनविषयक व किच्छा विषयीभूतमिति भावः, वाद्यपेक्षया साधनेच्छा भवति, संहतपरार्थत्वं चक्षुरादीनां स्वीकर्त्तारं बौद्धं प्रति सांख्येन परार्थाश्चक्षुरादय इत्येवं पारार्थ्य मात्रस्याभिधानेऽपि सांख्येच्छाविषयीभूतमात्मार्थत्वमेव 15 साध्यं भवति, अन्यथा साधनं निरर्थकमेव स्यात् । प्रमांणाबाधितमिति पदं वादिप्रतिवाभयापेक्षया । वादिप्रतिवादिनोः प्रमाणेन यन्न बाध्यते तदेव हि कथायां साध्यमिति । साध्यस्य दृष्टान्तमाह यथेति वह्निना विशिष्टः पर्वतस्साध्य इत्यर्थः, अस्यैव साध्यस्य पर्यायशब्दमाहास्यैव चेति, अत्र हेतुमाह साध्येति । प्रतिनियत साध्यधर्मविशेषणविशिष्टतया धर्मिणस्साधयितुमिष्टत्वात्साध्यव्यपदेशः कथायां पक्षव्यपदेशभाग् भवतीति भावः, ननु साध्यं 20 धर्मो वा धर्मविशिष्टो धर्मी वा यदि धर्मस्तदा कथं पक्षस्य साध्यत्वमुक्तं, यदि धर्मवि•शिष्ट धर्मी साध्यं, तदा कदाऽयं साध्यशब्दवाच्य इत्याशंकाया माहेदचेति, पक्षापरपर्यायधर्मविशिष्ट धर्मी चेत्यर्थः । प्रयोगकालापेक्षया साध्यशब्दवाच्यो भवतीति भावः ॥ 25 1 'अनुमानप्रभवप्रतिपत्तिकालापेक्षया साध्यधर्मविशिष्टप्रसिद्धधर्मिणस्साध्यत्वेऽपि तेन सह तोरविनाभावासंभवात्कथमनुमितिरित्यत्राह— व्याप्तिग्रहणवेलायान्तु वह्नयादिधर्म एव साध्यः ॥ १. संशयितस्य पुरुषस्य संशयापनोदनार्थमिव विपर्यस्ताव्युत्पन्नयोरपि विपर्ययानध्यवसायापनयनायानुमानप्रवृत्तिर्भवत्येव, परपक्षदिदृक्षादिना विपर्यस्तस्याव्युत्पन्नस्य स्वयं तत्त्वबुभुत्सया च परं प्रत्युपसर्पणसम्भवादिति भावः ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy