________________
'ग्याप्तिभेदः।]
न्यायप्रकाशसमलते . : ईदृशनियमस्य स्वरूपत एकविधत्वेऽप्याश्रयविशेषापेक्षया द्वैविध्यमाह
सोऽयं व्याप्त्यपरपर्यायो नियमो द्विविधः, सहभावनियमः, क्रमभावनियमश्चेति ॥
सोऽयमिति । पूर्वोपदर्शितस्वभावोऽयमित्यर्थः, अस्य नियम इत्यनेन सम्बन्धो नियम एव व्याप्तिरिति सूचयितुमुक्तं व्याप्त्यपरपर्याय इति । सहेति, हेतुसाध्ययोरेकस्मिन् काले 5 विद्यमानयोर्नियम इत्यर्थः । क्रमेति, पौर्वापर्यक्रमेण जायमानयोस्तयोर्नियम इत्यर्थः ॥
तत्र सहभावनियमः केषामित्यत्राह-..
तत्र सहभावनियम एकसामग्रीप्रसूतयो रूपरसयोर्व्याप्यव्यापकयोश्च शिंशपात्ववृक्षत्वयोर्भवति ॥
तत्रेति । द्विविधे नियम इत्यर्थः । सह भाव उत्पत्तिः स्थितिर्वा सहभावस्तस्य नियम 10 इति व्युत्पत्तिं मनसि निधायाद्याया निदर्शनमाहैकसामग्रीप्रसूतयोरिति, जनकसम्मम्या एकत्वेन रूपरसयोस्सहैवोत्पाख्न तयोर्नियमस्सहभावनियम उच्यत इति भावः । अत्रान्यतरस्य व्याप्यत्वं व्यापकत्वश्च यादृच्छिकमिति बोध्यम् । द्वितीयां व्युत्पत्तिमभिप्रेत्याह , व्याप्यव्यापकयोरिति परस्परं न्यूनाधिकदेशवर्त्तिनोरित्यर्थः, तथा च रूपं वृक्षत्वं वा विना रसस्य शिंशपाया वाऽनुपपत्ते रूपस्य वृक्षत्वस्य च सत्त्व एव रसस्य शिंशपात्वस्योपपत्तेश्च 15 तयोर्नियमस्सहभावनियम इति भावः ॥ ...... wear ॥ ...
.
. केषां क्रमभावनियम इत्यत्राह• क्रमभावनियमस्तु कृत्तिकोदयरोहिण्युदययोः पूर्वोत्तरभाविनोः, कार्यकारणयोश्च धूमवयोर्भवति ॥ ..... क्रममावेति । क्रमः पूर्वापरभावः, स चाकार्यकारणयोः कार्यकारणयोश्च भवती- 20 त्याद्यस्य निदर्शनमाह कृत्तिकेति । अत्र शकटोदये न कृतिकोदयस्य कारणत्वमपि तु पौर्वापर्यमात्रमिति भावः । कार्यकारणयोदृष्टान्तमाह कार्येति, भवतीति, नियम इति शेषः॥
ननु हेतुज्ञानसहकृतेन व्याप्तिस्मरणेन साध्यविज्ञानमनुमानमिति प्राग्वर्णितं, तत्र किन्तावत्साध्यमित्यत्राह
प्रमाणाबाधितमनिर्णीतं सिषाधयिषितं साध्यम् । यथा वह्निमत्पर्व- 25