SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ :३६६ : तत्त्वन्यायविभाकरे __ . [ चतुर्यकिरणे धर्मतया तस्या विवक्षा तदा व्यापकस्य यत्र धर्मिणि व्याप्यमस्ति तत्र सर्वत्र सत्त्वमेव व्यापकगतो धर्मों व्याप्तिः । यदा तु व्याप्यधर्मतया व्याप्तिर्विवक्ष्यते तदा यत्र धर्मिणि व्यापकोऽस्ति तत्रैव व्याप्यस्य भावो न तदभावेऽपीति सैव व्याप्तिः । पूर्वप्रायोगव्यव च्छेदेनेह चान्ययोगव्यवच्छेदेनावधारणं बोध्यम् । तत्र हेतुनिष्ठव्याप्तेरेव गमकताङ्गतया 5 हेतावित्युक्तम् । तथा चान्ययोगव्यवच्छेदलब्धार्थमाह साध्याभावेति । यत्र धर्मिणि व्यापक साध्यमस्ति तत्रैव हेतो वः, साध्यं यत्र नास्ति तत्र तस्याभाव एवेति हेतुनिष्ठा व्याप्तिरिति भावः, एतेन यत्र धर्मिणि साध्यमस्ति तत्र साधनस्यैव भावोऽथवा यत्र धर्मिणि साध्यमस्ति तत्र साधनस्य भाव एव व्याप्तिरित्यवधारणं न साधु, तथा च सत्यव्याप्यस्यापि तत्र भावेन हेत्वभावप्रसङ्गः प्रथमावधारणे, द्वितीये च साधारणस्य प्रमेयत्वादेर्हेतुत्वप्रसङ्गः, सपक्षक10 देशावृत्तेश्चाहेतुत्वप्रसङ्गः स्यादिति । इयमेव व्याप्तिरत्र शास्त्रेऽन्यथाऽनुपपत्तिप्रभृतिशब्दैर्व्य वह्रियत इत्याहेयमेवेति, ननु तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारेण हेतुप्रयोगो दृश्यते तत्र तत्र शास्त्रे, यथा पर्वतो वह्निमान् तथैव धूमोपपत्ते—मान्यथानुपपत्तेर्वेति । तत्र तथोपपत्तिरनवयोऽन्यथानुपपत्तिय॑तिरेकस्तत्कथमत्रान्यथाऽनुपपत्तेरेव व्याप्तित्वमुक्तमिति जिज्ञासाया माह वहिं विनेति, वहिं विना धूमस्यानुपपत्तेरित्यनेन व्यतिरेकरूपान्यथानुपपत्तिः, वह्निसत्त्व 15 एव धूमोपपत्तश्चेत्यनेनान्वयरूपा तथैवोपपत्तिश्च प्रदर्शिता । अनयोरुभयोरपि परस्पराव्यभिचा रित्वेन तयोरन्यथानुपपत्तिशब्दग्राह्यत्वमेव, नहि कश्चिद्विशेषस्तयोरित्यभिप्रायेणाहान्यथानुपपत्त्यादिशब्दवाच्येति । तेनैकत्र तयोरन्यतरस्य प्रयोगे साध्यसिद्धावपरप्रयोगस्य वैयर्थ्यमेवेति भावस्सूचितः । 'आदिना प्रतिबन्धाविनाभावौ ग्राह्यौ, हेतुनिष्ठव्याप्तेरेवानुमानौपयिकतया हेतुाप्यो निरूपकञ्च साध्यं व्यापकमित्याहात इति, हेतुनिष्ठव्याप्तेरनुमित्यौपयिकत्वा20 दित्यर्थः, व्याप्यो व्याप्त्याश्रयः, वह्निर्व्याप्तिनिरूपकः तथा च वह्निनिरूपितव्याप्त्याश्रयत्वाद्धमो वह्निव्याप्यः, धूमवृत्तिव्याप्तिनिरूपकत्वाद्वतिधूमव्यापक इति भावः । व्याप्यव्यापकयोरुभयत्र व्याप्तेर्नैकाकारप्रतीतिविषयत्वमिति स्पष्टयति तथा चेति, धूमस्य व्याप्यत्वे वह्वेश्च व्यापकत्वे इत्यर्थः । अवश्यं व्यापकसत्त्वमिति, व्यापकस्य सत्त्वमेवेत्यर्थः, नतु व्यापकस्यैव भाव इति, व्यापकाभावप्रसङ्गात्, मूर्त्तत्वादेरव्यापकस्यापि तत्र सत्त्वात् । व्यापकसत्त्व एव 25 चेति, तथा चायोगाऽन्ययोगव्यवच्छेदाभ्यां विभिन्नाकारतयोभयत्रैकाकारत्वविरहेणैवमेव व्याप्यव्यापकभावस्य नियमो भवतीति भावः ।। १. पर्वतो वह्निमान धूमादित्यादिहेतोरित्यर्थः, सपढेकदेशेऽयोगोलकादौ धूमस्याविद्यमानत्वादिति भावः ॥ २. यत्र धर्मिणि व्यापकोऽस्ति तत्रैव व्याप्यस्य भावो न तदभावेऽपीत्यवधारणमभ्युपेत्य लक्षणप्रणयनेन तदन्तर्गततयोभयविधस्यापि लाभेनेदृशव्याप्तेरन्यथानुपपत्तिशब्दवाच्यत्वे तदुभयोरपि ग्रहणसंभवादिति भावः ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy