________________
प्रत्यभिज्ञानम् ] न्यायप्रकाशसमलङ्कृते
: ३५७ : गोसदृशो गवय इत्यादि, अत्रैवोपमानस्यान्तर्भावः । वैलक्षण्यविषयकं गोविसदृशो महिष इत्यादि, प्रतियोगित्वविषयकश्चेदं तस्माहूरं समीपमल्पं महद्वेत्यायुदाहरणानि बोध्यानि । इति प्रत्यभिज्ञाननिरूपणम् ॥
तत्रेति । ईदृशे प्रत्यभिज्ञान इत्यर्थः, इत्यादिज्ञानमिति, तद्देशतत्कालवर्तिदेवदत्ततद्देशैतत्कालवर्तिदेवदत्तयोश्च पूर्वापरपर्यायव्यापिदेवदत्तद्रव्यात्मकोर्ध्वतासामान्यमवलम्ब्यैकत्वं 5 विषयी क्रियते, प्रत्यभिज्ञापरिच्छेद्यस्यैकत्वस्याभावे पूर्वोत्तरपर्यायवयेकजीवासिद्ध्या बन्धमोक्षव्यवस्थैव न स्यात् बद्धस्यैव मुक्तत्वे हि विभाव्यात्मानं दुःखितं परमसुखप्राप्तये दुःखविगमोपाये प्रवर्तते, अन्यथाऽन्यस्य सुखार्थं किमर्थमन्य उद्युञ्जीतेति भावः । सादृश्यविषयकं तदुदाहरति सादृश्येति, गोसदृश इति, दृष्टे सादृश्यविशिष्टे पिण्डे स्मृते च गवि संकलनात्मकं गोसदृशो गवय इति ज्ञानमुपजायते, इदञ्च तिर्यक्सामान्यविषयकं, तिर्यक्सामान्यश्चात्र 10 सदृशपरिणामात्मकमिति भावः । ननु गोदर्शनजन्यसंस्कारवतः प्रमातुः कालान्तरे गवयदर्शनगोस्मरणाभ्यामुपजायमानस्य तत्सदृशोऽयमिति ज्ञानस्योपमानत्वरूपं प्रमाणान्तरमेवोचितं न तु प्रत्यभिज्ञानत्वं तस्यैकत्वमात्रविषयकत्वादिति परस्याकांक्षायामाहात्रैवोपमानस्यान्तर्भाव इति । तथा च सादृश्यविशिष्टपिण्डस्य दृष्टस्य स्मृतस्य गोश्च सङ्कलनात्मकस्य गोसदृशो गवय इति ज्ञानस्य प्रत्यभिज्ञानतानतिक्रमात् । स एवायमित्यादिरूपा यथा पूर्वपर्यायेणोत्तरपर्यायस्यैक- 15 ताविषयिणी प्रतीतिः सङ्कलनात्मकत्वात् प्रत्यभिज्ञानं तथैव गोसदृशो गवय इत्यपि प्रतीतिः प्रत्यभिज्ञानमेव, सङ्कलनात्मकत्वाविशेषात् , यद्येकत्वमात्रविषयकं तत् न तु सादृश्यादिविषयकमित्युच्यते तर्हि सादृश्यज्ञानस्योपमानत्वात्मकप्रमाणान्तरत्ववत् गोविधर्मा महिष इत्यादिरूपवैसादृश्यज्ञानस्यापि प्रमाणान्तरत्वं स्यात् ,न च वैसादृश्यज्ञानमुपमानान्तर्गतम् ,तस्य सादृश्यमात्रविषयकत्वात् , इष्टापत्तौ तव प्रमाणसंख्याव्याघातस्स्यात् । न च वैसादृश्यं सादृश्याभाव- 20 स्तथा चाभावविषयकत्वेनानुपलब्धिप्रमाणान्तर्गतत्वान्न प्रमाणसंख्या व्याहन्यत इति वाच्यम् , तथा च सति सादृश्यस्यापि वैलक्षण्याभावरूपत्वेनाभावविषयकतया तत्रैवान्तर्गतत्वेनोपमा. नप्रमाणाभावप्रसङ्गः स्यादिति भावः । एतेनातिदेशवाक्यार्थज्ञानकरणकं सादृश्यविशिष्टपिण्ड दर्शनव्यापारकं संज्ञासंज्ञिसम्बन्धज्ञानमुपमानमित्यपि निरस्तम् , अस्यापि प्रत्यभिज्ञानत्वाऽनतिक्रमात् , इदंत्वेनानुभूतगवयादिव्यक्तौ गवयादिपदवाच्यत्वस्य सङ्कलनात् । न चेदन्त्वेनैव की गवयस्यानुभूतत्वेन गवयत्वावच्छिन्ने गवयपदवाच्यत्वस्योपमानविषयस्य न प्रत्यभिज्ञानतस्सिद्धिर्गवयत्वेन तस्याननुभवादिति वाच्यं प्रत्यभिज्ञावरणकर्मक्षयोपशमविशेषेण यद्ध
१. ननु सादृश्यं न वैलक्षण्याभावमात्रं, किन्तु समानधर्मयोग एवेति नोपमानोच्छेद इति चेन्न, वैलक्षण्यस्यापि विसदृशधर्मयोगरूपत्वेन सादृश्याभावमात्ररूपत्वासम्भवादिति ॥