________________
: ३५८ : तत्त्वन्यायविभाकरे
[ तृतीयकिरणे विच्छेदेनातिदेशवाक्यानूद्यधर्मदर्शनं तद्धर्मावच्छेदेनैव पदवाच्यत्वपरिच्छेदोपपत्तेरिति। एवं वैलक्षण्यविषयकं दृष्टान्तयति वैलक्षण्येति, गोदर्शनाहितसंस्कारस्य महिषदर्शिनो जायमानेयं प्रतीतिस्संकलनात्मकत्वात्प्रत्यभिज्ञानं विसदृशविषयकमिति भावः । प्रतियोगित्वविष
यकं दृष्टान्तयति, इदमिति, इदं तस्मादिति पदद्वयं समीपादिपदैरतनैस्सम्बध्यते, तस्मादि5 त्यत्र पञ्चम्यर्थोऽवध्यपरपर्यायः प्रतियोगित्वं, तथा चेदं तदवधिकदूरत्ववत्तत्प्रतियोगिकदूरत्ववद्वेत्यर्थः एवमग्रेऽपि, इत्यादीत्यत्रादिना · रोमशो दन्तुरश्श्यामो वामनः पृथुलोचनः । यस्तत्र चिपिटघ्राणस्तं चैत्रमवधारयेः॥ पयोम्बुभेदी हंसस्स्यात् षट्पदैर्धमरः स्मृतः । सप्तपर्णस्तु विद्वद्भिर्विज्ञेयो विषमच्छदः ॥' इत्येवमादिशब्दाकर्णनोत्तरकालं तथाविधवस्त्व
वलोकनतो यदा तथावचनं सत्यापयति तदा तथाविधानि ज्ञानानि संकलनात्मकत्वादुदाह10 रणतया ग्राह्याणीति । प्रत्यभिज्ञानप्रमाणं निगमयतीतीति ॥
सम्प्रति तर्कप्रमाणं निरूपयति
उपलम्भानुपलम्भादिजन्यं व्याप्त्यादिविषयकं ज्ञानं तर्कः। यथा वह्नो सत्येव धूमो भवति, वहावसति धूमो न भवत्येवेति ज्ञानं व्या
प्तिविषयकम् ॥ 15 उपलम्भेति । उपलम्भानुपलम्भौ-यथाक्षयोपशमं सकृदसकृद्वा प्रमाणमात्रेण साध्य
साधनयोर्ग्रहणाग्रहणे, न तु केवलं प्रत्यक्षेण, अनुमानादिनापि अतीन्द्रियसाधननिश्चयानिश्चययोरुपादानात् । आदिनाऽऽवापोद्वापयोर्ग्रहणं ताभ्यां जन्यं वक्ष्यमाणस्वरूपव्याप्त्यादिविषयकं ज्ञानं तर्क इत्यर्थः, अत्रादिना वाच्यवाचकभावो ग्राह्यः, तथाचोपळम्भानुपल
म्भजन्यव्याप्तिविषयकज्ञानाऽऽवापोद्वापजन्यवाच्यवाचकभावज्ञानान्यतरत्वं तर्कस्य लक्षणम् । 20 दृष्टान्तमाह यथेति, प्रत्यक्षेण सकृदसकृद्वा वह्निधूमयोहणाग्रहणानन्तरं यावान् कश्चिद्ध
मस्स सर्वोऽपि वह्नौ सत्येव भवति वह्नावसति धूमो न भवत्येवेति सर्वदेशकालावच्छेदेन साध्यसाधनसम्बन्धविषयकं ज्ञानमुदेति तस्मादयं तर्क इति भावः, सर्वदेशकालावच्छेदेन साध्यसाधनसम्बन्धो व्याप्तिः तद्विषयकश्च तकः, तदुल्लेखश्चेदमस्मिन् सत्येव भवति, इदम
स्मिन्नसति न भवतीत्येवंरूपः। अत्र सहकारिकारणे च प्रमाणेन सकद्वाऽसकृद्वा साध्य25 साधनयोर्ग्रहणाग्रहणे, महानसादौ वह्निधूमयोर्ग्रहणं हूदादौ तयोरग्रहणमिति । न च भूयो
१. सर्वोपसंहारेण व्याप्तेः प्रत्यक्षाविषयत्वं, उपलम्भानुपलम्भस्वभावस्य द्विविधस्यापि प्रत्यक्षस्य सन्निहितमात्रविषयकत्वात् । तथा च व्यभिचारादर्शनभूयोदर्शनसहकृतमपि प्रत्यक्षं न व्याप्तिं ग्राहयति, स्वाविषये सहकारिसहस्रसहकृतेनापि स्वेन तद्भहायोगात् ॥