________________
तत्त्वन्यायविभाकरे
[ तृतीयकिरणे त्वात्तस्य, नापि प्रत्यक्षस्य, वर्तमानार्थमात्रवृत्तित्वात् , अस्य दर्शनस्मरणोत्तरकालभावित्वेन ज्ञानान्तरत्वेनानुभवाच्च, न ह्यनुभूयमानस्यापलापो युक्तोऽतिप्रसङ्गादित्याशयेन प्रत्यभिज्ञाया विषयमुपनिबध्नातीदमिति, प्रत्यभिज्ञानमित्यर्थः, तत्तेदन्तोल्लेखनयोग्यमिति, प्रायस्मृताविवात्रापि तत्तेदन्तयोरुल्लेखनं भवतीति भावः, ननु तत्ताऽस्पष्टता, इदन्ता स्पष्टता, तथा च 5 स्पष्टास्पष्टाकारभेदान्नैकं प्रत्यभिज्ञानस्वरूपमस्ति, विरुद्धधर्माध्यासेऽप्यभेदे प्रत्यक्षानुमानयोरप्यैक्यं स्यादिति चेन्न, चित्रज्ञानवदाकारभेदेऽपि तस्यैकज्ञानत्वेनानुभवात् तर्हि विलक्ष. णविषयाभावान्नेदमस्तीत्यत्राहैकत्वसादृश्यवैलक्षण्यप्रतियोगित्वादिविषयकमिति, क्वचिदेकत्वं क्वचित्सादृश्यं क्वचिद्वैलक्षण्यं क्वचिच्च प्रतियोगित्वमस्य विषय इति भावः । ननु
स एवायमित्यादिप्रत्यभिज्ञानं स्मृतिप्रत्यक्षात्मकज्ञानद्वयमेव, परन्तु तयोर्भेदस्याग्रहादेक10 रूपतया भासत इत्याशङ्कायामाह संकलनज्ञानापरपर्यायमतीतवर्तमानोभयकालावच्छिन्न
वस्तुविषयकञ्चेति । सङ्कलनं नाम विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनम् , प्रत्यक्षस्मरणोत्तरकालमनुभूयमानत्वेन न तत् ज्ञानद्वयमपि तु सङ्कलनात्मकं ज्ञानान्तरमेव, अन्यथा विशिष्टज्ञानमात्रोच्छेदः प्रसज्येत, सर्वस्यापि विशिष्टज्ञानस्य विशेषणज्ञानविशेष्यज्ञानोभय
पूर्वकत्वेनावश्यनियततदुभयेनैवोपपत्तौ विशिष्टज्ञाने स्वीक्रियमाणे गौरवात् । तथा प्रत्यक्षं 15 वर्तमानमात्रकालावच्छिन्नवस्तुविषयं, स्मरणश्चातीतमात्रकालावच्छिन्नवस्तुविषय, प्रत्यभिज्ञा
नन्तु तदग्राह्यवर्तमानकालातीतकालोभयावच्छिन्नवस्तुविषयकमिति न ज्ञानद्वयात्मकं प्रत्यभिज्ञानमिति भावः । न चेन्द्रियविषयसम्बन्धे सति प्रत्यभिज्ञानस्य भावात्तदभावे तदभावाच्च प्रत्यक्षमेवेदमिति वाच्यम् , इन्द्रियविषयसम्बन्धाव्यवहितोत्तरं तस्यानुत्पत्तेः, प्रत्यक्षस्मर
णान्वयव्यतिरेकतस्तस्य भावा भावात् , संस्कारसत्त्वे तस्य भावात्तदभावे तदभावाच्च तस्य 20 स्मरणत्वापत्तेः, अतीतवर्तमानयोरेकत्वस्य प्रत्यक्षाविषयत्वाच्च तस्य वार्त्तमानिकत्वात् , न च
स्मरणसहकृतमिन्द्रियमेकत्वं गृह्णातीति वाच्यम्, स्वाविषये सहकारिबलेनाप्यप्रवृत्तेः, नहि गन्धस्मृतिसहकृतं चक्षुः कदापि गन्धे प्रवर्त्तते अविषयश्च वर्तमानातीतकालीनत्वव्याप्यमेकत्वमिति ॥
क्रमेण प्रत्यभिज्ञानस्य दृष्टान्तान्याहतत्रैकत्वविषयं स एवायं देवदत्त इत्यादिज्ञानम् । साहश्यविषयक
25
१. तथा च प्रत्यभिज्ञानं प्रमाणं, अविसंवादित्वे सति स्वार्थव्यवसायात्मकत्वात् , अन्यथा हि विसंवादः स्यात् संशयादिवत् न चेदं प्रत्यभिज्ञानमव्यवसायात्मकं, तदेवेदं तत्सदृशमेवेदमित्यायेकत्वसादृश्यादिविषयस्य प्रत्यभिज्ञानस्याबाधितस्य संशयादिव्यवच्छेदेनावगमात् । बाध्यमानस्य चाप्रमाणत्वोपपत्तेस्तदाभासत्वात् । न च सर्व प्रत्यभिज्ञानं बाध्यमानमेव, तत्साधकप्रमाणाभावादित्यपि सूचितम् ॥