________________
प्रत्यभिज्ञानम् ]
न्यायप्रकाशसमलङ्कृते द्रव्याद्यर्थेऽविसंवादकत्वात् यत्र तु विसंवादस्स प्रत्यक्षाभासवत्स्मरणाभास एव । अनुभूतार्थेन सविषयकत्वादेवार्थादनुत्पद्यमानत्वमप्यसिद्धं स्वविषयानुभूतार्थादुत्पद्यमानत्वात् , अनुभवप्रमात्वपारतंत्र्यादस्या अप्रमात्वमिति चेदनुमितेरपि व्याप्तिज्ञानप्रमात्वपारतंत्र्येणाप्रमात्वप्रसङ्गः स्यात् । नाप्यतीतेऽर्थे प्रवर्त्तमानत्वादप्रमाणत्वं, अतीतार्थस्य हि किं स्वकालेऽसत्त्वं स्मृतिकाले वा, नाद्यः तस्य विद्यमानत्वात् , न द्वितीयः तस्याप्रामाण्यासाधकत्वात् योगिप्र- 5 त्यक्षकाले विषयाभावेऽपि प्रवर्त्तमानस्य तस्य प्रमाणत्वात् । नापि गृहीतग्राहित्वादप्रमाणं, अनुमानेनाधिगते वह्नौ तदुत्तरकालभाविनः प्रत्यक्षस्याप्रमाणताप्रसङ्गात् , वर्तमानकालावच्छेदेनाधिगतस्यार्थस्यातीतकालावच्छेदेनाधिगतेरगृहीतग्राहित्वाच्च । न च वर्तमानकालावच्छिन्नत्वविशिष्टेऽतीतकालावच्छिन्नत्वस्य स घटोऽस्तीत्यादौ भानादतीतकालवर्तित्वरूपायां वा तत्तायामेतत्कालीनपदार्थवृत्तित्वस्य वा भानेनाप्रमाणत्वमिति वाच्यम् , विशेषणे सर्वत्र विशे- 10 ष्यकालभाननियमस्यानभ्युपगमात् वर्तमानकालीनत्वविशिष्टे चातीतकालीनत्वभानानभ्युपगमाञ्च किन्तु वर्तमानकालीनत्वातीतकालीनत्वयोस्स्वातंत्र्येणैव भानाभ्युपगमात्। प्रत्यभिज्ञानादिप्रवृत्तिनिहितधनादिप्राप्तिलक्षणप्रयोजनसाधकत्वेन प्रयोजनाप्रसाधकत्वमप्रसिद्धमेवेति भावः ।।.
अथ मतिस्मृतिहेतुकां प्रत्यभिज्ञां लक्षयति--
अनुभवस्मरणोभयमात्रजन्यं ज्ञानं प्रत्यभिज्ञानम् । इदं तत्तेदन्तो- 15 ल्लेखनयोग्यमेकत्वसादृश्यवैलक्षण्यप्रतियोगित्वादिविषयकं सङ्कलनज्ञानापरपोयमतीतवर्तमानोभयकालावच्छिन्नवस्तुविषयकश्च ॥
अनुभवेति । अनुभवस्मरणोभयमात्रजन्यत्वे सति ज्ञानत्वं लक्षणम् , अनुभवमात्रजन्यत्वे सति ज्ञानत्वस्य स्मृतौ, स्मृतिजन्यत्वे सति ज्ञानत्वस्यानुमित्यादौ अनुभवस्मरणोभयजन्यत्वस्यापि तत्रैव सत्त्वेन व्यभिचारात्तत्तत्पदानि वाच्यानि । ननु ज्ञानमिदं प्रत्यक्ष- 20 स्मरणाभ्यां भिन्नं भवितुं नार्हति तदेवेदमिति हि प्रत्यभिज्ञानं, तत्र तदिति स्मरणमिदमिति प्रत्यक्षमतो नान्यः कश्चिदस्य विषयोऽतो नेदं प्रमाणान्तरमिति चेन्न, ताभ्यामस्य वैलक्षण्यात् , अस्ति पत्र विलक्षणो विषयो यस्य ग्रहणं स्मरणप्रत्यक्षाभ्यामशक्यं पूर्वापराकारैकधुरीणं द्रव्यं प्रत्यभिज्ञानस्य विषयः, न च तत्स्मरणस्य विषयः, अनुभूतार्थविषय
१.सम्बन्धस्मरणादेाप्तिप्रत्यभिज्ञादिफलोपयोगे प्रामाण्यमेव, फलीभूतस्मृतेरपि विषयबाधाभावादेव याथार्थ्य दुर्निवारं, तस्याः प्रमात्वस्यानुभवप्रमात्वपारतंत्र्येऽपि व्याप्तिज्ञानप्रमात्वपरतंत्रानुमितिप्रमात्ववदविरोधात् ॥ २. किञ्च प्रत्ययानां प्रामाण्यनिबन्धनं न केवलं विषयातिरेक एव, संदिग्धस्य सन्देहापकरणस्यापि निबन्धन-. त्वात् । तथाहि घटादयः कदाचिदुपलक्षिताकारा: अन्यदाऽनुपलक्ष्यमाणाः सदसत्तया सन्देहविषयतामापद्यन्ते । प्रत्यभिज्ञा च तेषां सन्देहविषयतामपाकुर्वाणा प्रमाणतामश्नत एवेति ।।