________________
तस्वन्यायविभाकरे
[सृतीयकिरणे अथ तृतीयः किरणः अथावसरप्राप्तां मतिश्रुतकार्यभूतां स्मृति प्रत्यभिज्ञादिहेतुभूतां निरूपयति
अनुभवमात्रजन्यं ज्ञानं स्मृतिः । यथा स घट इत्यादि, अत्र प्रायेण तत्तोल्लिख्यते। अनुभवोऽत्र प्रमाणरूपः। आत्मशक्तिरूपसंस्कारो 5 द्वारम् । प्रबोधस्सहकारी। पूर्वानुभूतविषयिणीयम् । अर्थाविसंवादकत्वाचास्याः प्रामाण्यम् । इति स्मृतिनिरूपणम् ॥
अनुभवमात्रेति । अत्र धारणात्वेन सङ्गहीताऽविच्युतिस्संस्कारो वाऽनुभवपदेन ग्राह्यः, सत्र संस्कारस्साक्षात्स्मृति प्रति हेतुरविच्युतिस्तु संस्कारद्वारेति विशेषः, अनुभवेतराजन्यत्वे
सति अनुभवजन्यत्वे सति ज्ञानत्वं लक्षणार्थः, आद्यं सत्यन्तं प्रत्यभिज्ञानादिव्युदासाय द्विती10 यमवग्रहादिव्युदासाय, अनुभवध्वंसेऽतिव्याप्तिवारणाय ज्ञानत्वमिति । अत्र निदर्शनमाह
यथेति, ननु स घट इत्याकारप्रदर्शनेन स्मरणमात्रं तत्तोल्लेखशालीति प्राप्तं, तथा च सति ' यावता स्मरसि चैत्र ! काश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामह' इत्यादिस्मरणानां तच्छब्दोल्लेखाभावेन स्मरणरूपता न स्यादित्याशङ्कायामाहात्रेति, प्रायेणेत्यनेन तदित्युल्ले
खयोग्यतावत्त्वमपेक्षितमिति सूच्यते, उक्तस्थलेषु तद्योग्यताऽस्त्यैव, 'तेषु काश्मीरेषु' इत्यपि 15 वक्तुं शक्यत्वादिति भावः । अप्रमाणभूतानुभवेनापि स्मरणसम्भवात्तद्वयुदासायाहानुभवोऽ.
त्रेति, एतल्लक्षणघटकीभूतानुभवः प्रमाणरूपो ग्राह्यः, अन्यथाऽनुभवसामान्यविवक्षणे भ्रमात्मकानुभवजन्यभ्रान्तस्मरणस्यापि ग्रहणे स्मृतित्वावच्छेदेन प्रामाण्यबोधकेनातनवाक्येन विरोधस्स्यादिति भावः। नन्वविच्युतेस्स्मरणहेतुत्वे तस्यान्तौहूर्तिकत्वेन कालान्तरभाविस्मृति
प्रति हेतुत्वं कथं स्यादित्यत्राहाऽऽत्मशक्तीति, न साक्षात्तस्याः स्मृति प्रति हेतुत्वमभिमतं येन 20 प्रोक्तदोषस्स्यादपि तु संस्कारद्वारेति ब्रूमः, स च संख्येयासंख्येयकालवर्तीति न दोष इति
भावः । न चात्मशक्तिरूपसंस्कारस्य तावत्कालमानस्य सर्वदा सद्भावेन सततं स्मरणं स्यादित्यत्राह प्रबोधस्सहकारीति । तथा चोद्बद्ध एव संस्कारः स्मृतिजनको न केवलः संस्कारः तस्योद्बोधकश्वावरणक्षयोपशमसदृशदर्शनादिसामग्रीति भावः । ननु स्मर्यमाण
स्यार्थस्याभावेन निरालम्बना स्मृतिः स्यादित्याकांक्षायामाह पूर्वानुभूतेति । पूर्वमनुभूतो यो 25 विषयस्तेनैवास्याः सविषयत्वेन न निरालम्बनत्वमिति भावः । ननु स्मृतिर्न प्रमाणमतीतेऽर्थे
उत्पद्यमानत्वात् गृहीतग्राहित्वात् , अर्थादनुत्पद्यमानत्वात् , विसंवादकत्वात् , प्रयोजनाप्रसाधकत्वाच्चेत्याकांक्षायामाहार्थाविसंवादकत्वाच्चेति, चशब्दः पूर्वोदितस्य पूर्वानुभूतविषयिणीति हेतुगर्भविशेषणस्यापि संग्राहकः । तथा च विसंवादकत्वं स्मृतेरसिद्धं, स्वप्रतिपन्ने धृत