________________
सांव्यवहारिकम् ]
न्यायप्रकाशसमलङ्कृते । द्वादशाङ्गगतं श्रुतमङ्गप्रविष्टं, यथा आचाराङ्गादि, तद्भिन्न स्थविरकृतं श्रुतमनङ्गप्रविष्टश्रुतं, यथा आवश्यकादि ।। ___ द्वादशाङ्गेति । गणधरकृतं पदत्रयलक्षणतीर्थकरादेशनिष्पन्नं ध्रुवश्च यच्छ्रतं तदङ्गप्रविष्टमुच्यते, तच्च द्वादशाङ्गीरूपमेवेत्याह-यथेति । अनङ्गप्रविष्टमाह तद्भिन्नमिति, यत्तु स्थविरकृतं मुत्कलार्थाभिधानं चलञ्च तदनङ्गप्रविष्टमित्यर्थः । दृष्टान्तमाह यथेति, अवश्यकत 5 व्यसामायिका दिक्रियानुष्ठानप्रतिपादकं श्रुतमावश्यकं, आदिनाऽऽवश्यकव्यतिरिक्तं कालिकमुत्कालिकञ्च ग्राह्यम् । यदिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पठ्यते तत्कालिकं, यत्पुनः कालवेलावर्ज पठ्यते तदुत्कालिकमिति ॥
ननु लक्षितयोर्मतिश्रुतज्ञानयोः सामान्येन भेदेऽवगतेऽपि तत्र स्वामिस्थितिकालविषयाणां सत्पदादिद्वाराणाश्चानुक्तत्वेन न्यूनतेत्याकांक्षायामाह--
10 मतिश्रुतयोबहुवक्तव्यत्वेऽपि विस्तरभिया नोच्यते ॥ मतिश्रुतयोरिति, बहुवक्तव्यत्वेऽपीति, सत्पदप्ररूपणादिभिर्गत्यादिमार्गणास्थानेषु संगमनीयत्वेऽपीत्यर्थः, विस्तरभियेति, ग्रन्थस्यास्य संक्षेपविषयत्वात्तयोस्साकल्येन विचारे क्रियमाणे उद्देशभङ्गस्यादिति भावः । अव्युत्पन्नमतीनां शास्त्रप्रवेशयोग्यतासम्पादनाय ह्यस्य ग्रन्थस्यारम्भः, विशेषतः प्रपञ्चितयोस्सनोस्तेषां सौकर्येण ग्रहासम्भवेन तद्योग्यता नैवोदीया- 15 दिति किश्चिदेव स्वरूपं तयोनिरूपितमिति तात्पर्यम् ।। ____ नन्वेवं सत्यवसितं तयोनिरूपणमिति प्राप्तं तथा च सति तद्भेदविशेषाणां स्वयमेव दर्शितानां स्मृत्यादीनामनिरूपणान्न्यूनत्वं तथापि स्यादित्यत्राह
इति सांव्यवहारिकप्रत्यक्षम् ।। इतीति । नहि मतिश्रुतयोनिरूपणस्य पूर्णता क्रियते येन न्यूनत्वं स्यात्, किन्तु 20 केवलमवग्रहादिविचारे मतिश्रुतयोः स्मृतत्वेन तत्स्वरूपजिज्ञासायामुदितायां सामान्यतो लक्षणतद्भेदा अभिहिताः प्रसङ्गसङ्गत्या, तथा चाकांक्षायामुपशमितायां प्रधानविषये लक्ष्यस्य गतत्वेनैतावता सांव्यवहारिकप्रत्यक्षमेव निरूपितं स्मृत्यादीनामधुनैव निरूपणावसरः प्राप्तस्तस्मान्न न्यूनतेति भावः ॥ इति श्रीमद्विजयानन्दसूरीश्वरपट्टधरश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्ति
भरेण तत्पट्टालंकारेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वो.. पज्ञायां न्यायप्रकाशव्याख्यायां सांव्यवहारिकप्रत्यक्षं नाम द्वितीयः किरणः॥
४५