________________
तस्वम्यायविभाकरे
[द्वितीयकिरणे स्वश्रुतमाह मिथ्यादृष्टीनामिति, मिथ्यात्वोदयाद्विपर्यस्ता मिथ्यादृष्टयः, तेषां श्रुतं मिथ्यात्वश्रुतमिति भावः । एवमेव मिथ्यात्वोदयान्मत्यवधी अपि मत्यज्ञानविभङ्गज्ञानरूपे भवतः ॥
साद्यनादिश्रुते प्राह___आदिमच्छूतं सादिश्रुतं, इदं पर्यायार्थिकनयापेक्षया । आदिशून्यं 5 श्रुतमनादिश्रुतं, इदन्तु द्रव्यार्थिकनयापेक्षया ॥
आदिमदिति । यस्यादिदृश्यते तच्छ्रतं सादिश्रुतमित्यर्थः, ननु जीवो हि नित्यः, श्रुतं च तत्पर्यायः पर्यायपर्यायिणोश्च कथञ्चिदभेदात्कथं श्रुतमादिमदित्यत्राह-इदमिति, जीवस्य नित्यत्वेऽपि नारकादिभवपरिणत्यपेक्षया यथा सादिस्तथोपयोगात्मकपर्यायस्य सादित्वा
कार्यभूतं श्रुतमपि सादीति भावः । अनादिश्रुतमाह-आदिशून्यमिति, अनादित्वे युक्ति10 माहेदन्त्विति, यैर्जीवद्रव्यैः श्रुतान्यधीतानि यान्यधीयन्ते यानि चाध्येष्यन्ते तानि तावन्न
कदापि व्यवच्छिद्यन्ते येन तेषामादिर्भवेत् नहि सर्वथाऽसत् क्वाप्युत्पद्यते सिकतास्वपि तैलाद्युत्पत्तिप्रसङ्गात् तस्माच्छ्रताधारद्रव्याणां सर्वदैव सत्त्वात्तदव्यतिरेकिणश्रुतस्यापि सर्वदा सत्त्वेन तदनादिमच्छ्रतमिति भावः॥
अथ सपर्यवसितापर्यवसिते आह15 अन्तवच्छूतं सपर्यवसितश्रुतम् । अनन्तवच्छूतमपर्यवसितश्रुतं, इमे
अपि तथैव ॥ .. अन्तवदिति । उपयोगस्य सपर्यवसितत्वादिति भावः । अपर्यवसितमाह-अनन्तेति । तदव्यतिरेकिजीवद्रव्यस्यापर्यवसितत्वेन तत्तादात्म्याच्छ्रतमप्यपर्यवसितमिति भावः । सप
यवसितत्वापर्यवसितत्वे अपि पर्याचार्थिकद्रव्यार्थिकनयापेक्षयैवेत्याहेमे अपीति, एवमेव 20 द्रव्यक्षेत्रकालभावानाश्रित्यापि सादित्वानादित्वसपर्यवसितत्वापर्यवसितत्वानि भाव्यानि ॥
गमिकागमिकश्रुते बक्ति... प्रायस्सदृशपाठात्मकं श्रुतं गमिकश्रुतं, तद्विपरीतमगमिकम् ॥ - प्राय इति । आदिमध्यावसानेषु किञ्चिद्विशेषतो भूयो भूयः तस्यैव सूत्रस्योच्चारणं
गमः, गमा अस्य विद्यन्त इति गमिकं तच्च तच्छूतञ्च गमिक श्रुतमिति व्युत्पत्तिः । तच्च । गमिकं प्रायो दृष्टिवादः। अगमिकमाह तद्विपरीतमिति असदृशपाठात्मकमित्यर्थः, तश्च प्राय आचारादिकालिकश्रुतम् ॥
अथाङ्गप्रविष्टानङ्गप्रविष्टे निर्वक्ति