________________
श्रुतमेदाः ]
न्यायप्रकाशसमलइसे लब्ध्यक्षरं मनष्षष्ठेन्द्रियनिमित्तकत्वात् षड्विधम् । अनक्षरश्रुतमाह भाषश्रुतहेतुरिति । उच्छासादिरिति, आदिना निःश्वासनिष्ठीवनकासनक्षुतादीनां ग्रहणम्, एतादृक् :शुबानमेवानभरश्रुतं भावश्रुतहेतुत्वात् , भवति च तथाविधोच्छ्वासादिश्रवणे शशकोऽयमित्यादिज्ञानम् विशिष्टाभिसन्धिपूर्वकोच्छ्वासादिभिश्च विशिष्टपदार्थज्ञानम् । श्रुतज्ञानोपयुक्तस्यात्मनस्सर्वात्मनैवोपयोगात्सर्वोऽप्युच्छसितादिको व्यापारश्श्रुतमेव । गमनागमनचलनस्पन्दादिचेष्टा 5 अपि तादृशस्य श्रुतमेव तथापि शास्त्रलोकप्रसिद्ध्योच्छ्वसितादिकमेव श्रुतं श्रूयमाणत्वात् न सादृश्यश्चेष्टाः दृश्यत्वादिति ॥
अथ संश्यसंज्ञिश्रुते आह. समनस्कस्य श्रुतं संज्ञिश्रुतम् । तद्विपरीतमसंज्ञिश्रुतम् ॥
समनस्कस्येति । संज्ञाऽत्र दशविधा न विवक्षिता व्यापकत्वात् , किन्तु ज्ञानावरणकर्म- 10 क्षयोपशमजन्यमनोज्ञानसंज्ञयैव संज्ञिनश्शोभनत्वादित्यतस्समनस्कस्येत्युक्तम् । सा संज्ञा दीर्घः कालिकी विज्ञेया यो यः कश्चिन्मनोज्ञानावरणकर्मक्षयोपशमान्मनोलब्धिसम्पन्नो मनोयोग्याननन्तान् स्कन्धान्मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमय्य मन्यते चिन्तनीयं वस्तु तादृशो गर्भजस्तिर्यङ् मनुष्यो वा देवों नारको वा तत्सम्बन्धि यच्छ्रतं तत्संज्ञिश्रुतमिति भावः । असंज्ञिश्रुतमाहैतद्विपरीतमिति, एकेन्द्रियादीनां दीर्घकालिकीसंज्ञारहितानां श्रुतमित्यर्थः ॥ 15
अथ सम्यमिथ्यात्वश्रुते आहसम्यग्दृष्टीनां श्रुतं सम्यक्छुतम् । मिथ्यादृष्टीनां श्रुतं मिथ्यात्वश्रुतम्।
सम्यग्दृष्टीनामिति, अनन्तानुबन्धिकषायचतुष्टयक्षयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वपुञ्जलक्षणे दर्शनमोहनीये सर्वथा क्षीणे क्षायिकं सम्यक्त्वं भवति, एवं चत्वार्यन्यानि भवन्ति, तदेतत्सम्यक्त्वपश्चकपरिग्रहात्सम्यक् श्रुतं भवति, चतुर्दशपूर्वेभ्यः प्रारभ्य यावत्सम्पूर्णदश. 20 पूर्वाणि तावन्नियमेन सम्यक्श्रुतमेव भवति, एतावच्छ्रतसद्भावे च सम्यग्दृष्टिरेक न मिथ्यादृष्टिः, भिन्नदशपूर्वादिके सामायिकश्रुतपर्यन्ते श्रुतसद्भावे तु कोऽपि सम्यग्दृष्टिः कश्चिन्मिध्यादृष्टिरपि भवति, तथा च सम्यक्त्वपरिग्रहात् श्रुतं सम्यक्श्रुतं भवतीति भावः । मिथ्या
१. तथा सम्यग्दृष्टयेऽहत्प्रणीतं मिथ्यादृष्टिप्रणीतञ्च सम्यक्श्रुतं भवति, यथास्वरूपमवगमात्, मिथ्यादृष्टये त्वहत्प्रणीतं मिथ्या दृष्टिप्रणीतञ्च मिथ्यास्वरूपं भवति यथास्वरूपमनवगमात् । मिथ्यादृष्टिहि सर्वमेवैकान्तस्वरूपं प्रतिपद्यते घट एवायमित्यादि व्यवहरन् घटपर्यायव्यतिरेकेण सतोऽपि सत्त्वज्ञेयत्वपदार्थत्वादिपर्यायानपलपति घटः सन्नेवेति ब्रुवन् पररूपेण नास्तित्वमनभ्युपगच्छन् तत्रासती पररूपतामप्यभ्युपैति, सम्यग्दृष्टिस्तु न तथेत्यपि बोध्यम् ॥