________________
: ३५० :
तत्त्वन्यायविभाकरे:
[ द्वितीयकिरण
नोदीरितदेशनाशब्दरूपश्च द्रव्यश्रुतं, मोक्षासाधारणकारणक्षायिकज्ञानदर्शनचारित्रलक्षणवस्तुकलापस्य हेतुत्वात् तद्वारेण श्रुतज्ञानमपि परप्रबोधकं, करादिचेष्टाया मतिज्ञानकारणत्वेऽपि न विशिष्ट पर प्रबोधकत्वमतस्तद्वारा मतिज्ञानमपि न तथा, एवं करादिचेष्टानां मतिज्ञान gas कथचित्परप्रबोधकत्वेऽपि च न तद्वारा मतिज्ञानं परप्रबोधकं, द्रव्यमतित्वस्य 5 क्वाप्यप्रसिद्धत्वेन तासां तत्रानन्तर्गतत्वादिति । विशेषस्तु विशेषावश्यकादौ द्रष्टव्यः ॥ अथ श्रुतज्ञानं विभजते—
तच्चाक्षरानक्षर संज्ञ्य संज्ञिसम्यमिध्यात्वसाद्यनादिसपर्यवसितापर्य: वसितगमिकागमिकाङ्गप्रविष्टानङ्गप्रविष्टश्रुतभेदेन चतुर्द्दशविधम् ॥
—
तश्चेति । श्रुतज्ञानश्चेत्यर्थः । अत्रानङ्गप्रविष्टपदं यावद् द्वन्द्वस्ततः श्रुतेन कर्मधारयः | 10 यद्यप्येते भेदा अक्षरश्रुतानक्षरश्रुतरूपभेदद्वय एवान्तर्भवन्ति, तथाप्यव्युत्पन्नमतीनां विशेषावगम सम्पादनाय तथोक्तिर्नहि भेदद्वयोपादानमात्रादव्युत्पन्नमतयः शेषभेदानवगन्तुं समर्थाः, अतो विनेयजनानुग्रहायेतरभेदोपन्यास इति ॥
तत्राक्षरश्रुतानक्षरश्रुते लक्षयति
संज्ञाव्यञ्जनलब्ध्यन्यतमवच्छ्रुतमक्षरश्रुतम् । यथा क्रमेण लिपिवि15 शेषो भाष्यमाणाकारादिस्त्वङ्मनो निमित्तकश्श्रुतोपयोगः । भावश्रुतहेतुरुच्छ्वासादिरनक्षरश्रुतम् ॥
संज्ञेति । संज्ञाव्यञ्जनलब्धिभेदादभरं त्रिविधम् । संज्ञाव्यञ्जने उपचाराच्छ्रते । उदाहरणमाह यथाक्रमेणेति । लिपिविशेष इति, अकाराद्यक्षरस्य संस्थानाकारः, ब्राह्मयादिलिपिभेदतोऽनेकप्रकारः । भाष्यमाणाकारादिरिति, अर्थव्यञ्जकत्वेनोच्चार्यमाणाकारादिव - 20 र्णसमूह इत्यर्थः, तमसि वर्त्तमानघटादेर्व्यञ्जकप्रदीपवदर्थस्य प्रकटीकरणादकारादिर्व्यञ्जनाक्षरमिति भावः, तच्च यथार्थनियतमयथार्थ नियतश्चेति द्विभेदम्, यथार्थनियतं यथा तपन इत्याद्यन्वर्थयुक्त शब्दः, अयथार्थनियतञ्च पलं नाश्नाति तथापि पलाश इत्यादिशब्दः । एकार्थानेकार्थभेदेन वा द्विविधम्, यथाऽलोकस्थण्डिलादिशब्दा एकार्थाः जीव इत्यादिशब्दा अनेकार्थाः, प्राण्यपि भूतोऽपि जीवशब्दार्थः । एकाक्षरानेकाक्षरभेदेन वा द्विविधं तत् श्रीरित्यादिकमेकाक्षरं लता मालेत्यादिकमनेकाक्षरमिति । त्वङ्मनोनिमित्तकश्रुतोपयोग इति, त्वच उपलक्षकत्वादिन्द्रियमनोनिमित्तं श्रुतप्रन्थानुसारिश्रुतज्ञानोपयोग इत्यर्थः उपलक्षकमेतत् तदावरणकर्मक्षयोपशमस्य, तेनैकेन्द्रियादीनामप्यव्यक्ताक्षरलब्धिस्संगृहीता, तदिदं
25